________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मध्यं दिवाकरः" इत्युक्तेः । यस्मिन्दिनेऽभिजिति प्रस्थानं तत्परेधुरेव समुद्रतीरे सेनानिवेशः। “सा स्म याति दिवाराचं महती हरिवाहिनी" इत्यारभ्य "मुहूर्त क्वापि नासत" इत्युक्तेः। यत्र दिने लवादाहस्तत्रैव दिवसे सभायां मन्त्रिभिः सह किंचिद्विचारमुक्त्वा “ विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्" इत्यन्तेन लङ्कादाइदिनवृत्तान्तं परिसमाप्य ततः प्रत्युपसि प्राप्ते' इत्यादिना अनन्तरदिने उषःकाले विभीषणोपदेशं द्वितीयमुक्त्वा ततो मन्त्र विचाराय रावणे कुम्भकर्णविभीषणादिभिः सभां प्रविष्टे विभीषणस्य तृतीयमुपदेशमुक्त्वा " इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः। आजगाम मुहू तेन यत्र रामः सलक्ष्मणः ॥” इत्यविच्छेदेन लङ्कादाहदिनानन्तरदिन एव समुद्रतीरे रामसकाशागमवर्णनेन च द्वितीयदिने रामेण समुद्रतीरं प्राप्तमित्यव गम्यते । समुद्रतीरप्राप्तिदिनं च शिष्टफाल्गुनपौर्णमासी । अत एव 'उत्तराफल्गुनी ह्यद्य ' इति चतुर्थसर्गश्लोके प्रस्थानदिनस्य पौर्णमासीयुक्तत्ववचनमप्य विरुद्धम् । समुद्रतीरप्राप्तिदिनस्य पौर्णमासीयुक्तत्वं च "चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । चन्द्रोदयसमुतं प्रतिचन्द्रसमाकुलम्" इति सन्ध्यासमय एव चन्द्रोदयप्रतिपादनात् सिद्धम् । सेनानिवेशवृत्तान्तो विभीषणागमनवृत्तान्तश्च एकदिनभाव्यपि वाचः क्रमवर्तित्वात् क्रमेणोक्तः। प्रथमायां रामस्य दर्भशयनारम्भः कुम्भकर्णस्वापारम्भश्च । चतुर्थीपञ्चमीषष्ठीसप्तम्यष्टमीषु सेतुबन्धः। अष्टम्यां रात्री सुवेलारोहणम् । यत्तु सुवेले "पूर्णचन्द्रप्रदीपा च निशा समभिवर्तत" इति वचनम्, तत्पूर्णचन्द्र इव प्रदीपा यस्यां निशायामित्येवमर्थकं व्याख्येयम् । सुग्रीवसेनायां भेर्यादीनामिव प्रदीपादीनामपि संभवात् । सुवेलारोहणानन्तरदिने दिवा लङ्कानिरोधः। "तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः । लङ्कायां ददृशुर्वीरा वनान्युपवनानि च" इत्युप। क्रम्य युद्धवर्णनात् । तत्रैव प्रथमदिनयुद्धे रात्रौ नागास्त्रबन्धतद्विमोक्षादि । “युद्धयतामेव तेषां तु तथा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी" इत्यारभ्य “सा बभूव निशा पोरा हरिराक्षसहारिणी। ततस्ते राक्षसास्तत्र तस्मिस्तमसि दारुणे । राममेवाभ्यवर्तन्त-" "तं भीम वेगा हरयो नाराचैः क्षतविग्रहाः । अन्धकारे न ददृशुः" इत्यादिभिस्तामेव रात्रि प्रत्यभिज्ञाप्य “निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ । कुद्धेनेन्द्र जिता वीरौ पन्नगैः शरतां गतेः" इत्यादिप्रतिपादनात् । तत्रैव निशीथे वानरहर्षनादकुपितेन रावणेन प्रपितयोधूम्राक्षवज्रदंष्ट्रयोर्युद्धं तदधश्च । तयो युदे दिवा ज्ञापकाभावात् वानरहर्षानन्तर्यश्रवणाच्च । रात्रिशेषेण तयोर्वधानन्तरं द्वितीयदिने अकम्पनयुद्धम् । तन्निर्गमनवेलायाम्-"अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम्" इति दिया ज्ञापकसत्त्वात् । अकम्पनवधानन्तरमेव रावणस्य पूर्वाह्न एव पुरीपर्यटनम् । अकम्पनवधा दिन एव । विभीषणेनाशु जगाम सङ्गमम् ' इति तदागमनानन्तरमेव विभीषणस्य स्वीकारः, तदिनमारभ्य दिनत्रयं समुद्रमार्थनार्थ राघवस्य दर्भशयनम् ।
For Private And Personal Use Only