________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥१८॥
कर्णस्य स्वापोत्सर्जनानन्तरमेकस्मिन् दिन एव प्रबोधनियमस्योक्तत्वान्मन्त्रकरणदिनसमनन्तरदिन एव कुम्भकर्णस्य स्वापारम्भः। 'आजगाम मुहूर्तेनाशका . इत्यनेन विभीपणागमनमपि मन्त्रदिन एव। " विभीषणेनाशु जगाम सङ्गमम्" इत्यनेन तदागमनानन्तरमेव तस्य स्वीकारः । तदिवसप्रभृति दिवसत्रये । समुद्रप्रार्थनार्थ रामस्य दर्भशयनम् । तदनन्तरं पञ्चदिनेषु सेतुबन्धः । सेतुबन्धपूर्तिदिवसे एव सायंकाले सुवेलारोहणम् । तस्यामेव रात्री सुग्रीवरावणयो ईन्द्वयुद्धम् । समनन्तरदिने तुमुलयुद्धम् । तत्रैव रात्रौ नागपाशबन्धमोक्षौ । धूम्राक्षवज्रदंष्ट्राकम्पनवधश्च । अनन्तरदिने प्रहस्तवधः रावणमुकुटभङ्गश्च । एवं दिवसगणनोपपत्तिरिति वदन्ति । तच्चिन्त्यम् ।सुवेलारोहणरात्रौ पूर्णचन्द्रोदयवर्णनेन सुवेलारोहणदिनं पौर्णमासीति सिद्धम् । रावणमरणदिनं चामा वास्येति स्फुटम् । एवं च त्वदुक्तरीत्या द्वितीयायामेव मुकुटभङ्गे रावणस्य दर्शपर्यन्तं विलम्ब्य युद्धकरणं चिन्त्यम् । वस्तुतस्तु इतः प्रसक्तायुद्धारम्भ दिनादित्यर्थः । तद्दिनमपहाय तत्पूर्वदिनापेक्षया नवमेऽहनि तत्पूर्वदिनकृतमन्त्रः प्रसुप्तः। तथा च पौर्णमास्यां सुवेलारोहणं प्रथमायां युद्धारम्भः। तत्पूर्व नवमदिनं सप्तमी । तस्यां कुम्भकर्णः सुप्तः, रामस्य दर्भशयनारम्भश्च । षष्ठयां कुम्भकर्णादिभिमन्त्रविचारः। तस्यामेव विभीषणनिर्गम इति । इत्थं चाहुः-सीताहरणात पूर्व त्रयोदशसंवत्सरा गताः। चतुर्दशवर्षारम्भे सीता हृता, पम्पातीरे वसन्तवर्णनात् । आषाढे वालिवधः। तदनन्तरं वर्षर्तुवर्णनात्।। आश्वयुजे सीतान्वेषणसमुत्साहनमिति स्फुटम् । स्वयंप्रभाबिले बहुकालो गतः । फाल्गुनशुद्धत्रयोदश्यां हनुमतो लङ्काप्रवेशः। "पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्" इति वसन्तादिभूतफाल्गुनमासतासूचकवृक्षापपुष्पितत्वोक्त्या तथा प्रतीतेः। “स्थितः ककुद्यानिव तीक्ष्णशृङ्गः" इति श्लोके प्रतिपूर्णशृङ्ग इति पदेन प्रतिपूर्णशृङ्गवच्चन्द्रवर्णनस्य तस्यामेव संभवात् । यस्मिन्दिने रात्री लायां सीतान्वेषणं तदनन्तरदिन एव प्रातलकादाहः ॥ "अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये" इत्युक्तत्वात् ।अनन्तरं तस्मिन्नेव दिने अविलम्चेन प्रत्यागमनम् । “यदि वामन्यसे वीर वसेकाहमरिन्दम" इति । सीतया पृष्टे "एवमाश्वास्य वैदेही हनुमान्मारुतात्मजः । गमनाय मतिं चक्रे" इत्युक्तेः । उपसि लङ्कादाहानन्तरं तस्मिन्नेव दिने मध्याह्नात् पूर्वमेवाङ्गदा| दिभिर्मधुवनविधमनपूर्वकं रामप्राप्तिः, अरिष्टपर्वतारोहणे तद्वर्णनव्याजेन "बोध्यमानमिव प्रीत्या दिवाकरकरैः सुखैः" इति सूर्योदयसमयमुक्त्वा अनन्तर मस्तमयानुक्तेः। तस्मिन्नेव दिवसे चतुर्दशीशेषयुक्तपौर्णमासीयुते मध्याह्ने युद्धयात्रा। "अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये। युक्तो मुहूर्तो विजयःप्राप्तो
त ॥१८३३ "एकाहं जागरिष्यति " इति ब्रह्मवाक्येन एकस्मिन्नेव दिवसे प्रबोधनियमस्योक्तत्वात् " नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः " इत्यनेन निद्रा नियमस्पानुक्तत्वात मन्त्रकरणदिनसमनन्तरदिन एव कुम्भकर्णस्य स्वापारम्भः । 'जगाम स मुहूर्तेन यत्र रामः सलक्ष्मणः' इत्यनेन विभीषणानुगमनमपि मन्त्र
For Private And Personal Use Only