SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir संपश्यन्ति पौर्णमास्या मासान्त्संपाद्याहरुत्सृजन्ति पौर्णमास्या हि मासान्त्संपश्यन्ति" इत्युक्तमासविकल्पेषु पडहानामपि मासत्वश्रवणात्तत्प्रकारेण नवपडित्युक्तत्रिंशन्मासा अपि अशीत्युत्तरशतदिनतया अमावास्यया पौर्णमास्या वा परिगणनेन पण्मासा एवं संपद्यन्त इति न कश्चिद्विरोधः । तथा हि-अस्ति किंचित् उत्सर्गिणामयनं नाम सत्रं गवामयनस्य विकृतिः। तत्र प्रकृतौ द्वादशमासेष्वनुष्ठेयानां सोमयागविशेषाणां त्रिंशतोऽनुष्ठेयत्वान किंचिदहरुत्स्स्रष्टुं शक्यते । तद्विकृतावत्र प्रतिमासमेकस्मिन्नहनि सोमयागपरित्यागो विधीयते । तत्र कतममहस्त्यज्यतामित्यपेक्षायामुच्यते- अमा वास्यया मासान्त्संपाद्याहरुत्सृजन्त्यमावास्यया हि मासान्त्संपश्यन्ति पौर्णमास्या मासान्त्संपाद्याहरुत्सृजन्ति पौर्णमास्या हि मासान्त्संपश्यन्ति' इति । मन्त्रयित्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि । तं तु बोधयत क्षिप्रंकुम्भकर्ण महाबलम् ॥ १७ ॥ अस्यार्थः-अमावास्यायामनुष्ठेयेन यागेन पूर्वमासं परिसमाप्य उत्तरस्यादिभूतमहस्त्यज्यतामिति । पौर्णमास्यामनुष्टेयेन यागेन पूर्वमासं परिसमाप्य। उत्तरस्यादिभृतमहस्त्यज्यतामिति च । अस्मिन् विधाने अर्थवादे प्रसिद्धिवाचिना हिशब्देन अमावास्याया मासान्तत्वम् । उत्तरवाक्ये पोर्णमास्या मासान्तत्वं च श्रुतम् । एवम् 'अर्धमासेर्मासान्त्संपाद्याहरुत्सृजन्त्यर्धमासहि मानान् संपश्यन्ति पडहेर्मासान् संपाधाहरुत्सृजन्ति पडहेहि मासान्त्सं पश्यन्ति ' इत्यत्रापि पक्षात्मकः पडहात्मकोऽपि मासोऽस्तीति हिशब्दा दर्शितम् । ननु च पडहेरिति बहुवचननिर्देशात् पञ्चभिः षडहेरिति व्याख्या नेन त्रिंशदिनात्मको मास एवात्र कथ्यत इति चेन्नः अर्धमासरित्यत्रापि तथात्वापत्तेः । तदानी बहुधमासानां मासत्वस्वीकारे पक्षत्रयस्यापि मासत्व प्रसङ्गः। तत्र" पक्षावै मासाः" इत्युक्तरीत्या एककस्य पक्षस्य मासत्वस्वीकारे अत्राप्याकस्येव पडहस्य मासत्वस्वीकारो युक्तः। पूर्वकल्पष्विव ५ अत्रापि प्रसिद्धिवाचकहिशब्दप्रयोगात् । अन्यथा उत्तरानुवाके "पडहेमासान्तसंपाद्य यत्सप्तममहस्तस्मिन्नुत्सृजेयुः" इति वाक्यविरोध: स्यात् । सप्तमत्वं ह्यत्र विशिष्यते । पडहेमासानित्यत्र मासशब्दस्य मासैकदेशलक्षणाङ्गीकारे स एव दोपः । तस्मात् पडदात्मकोऽपि मासोऽस्तीति सिद्धम् । तमिमं श्रोतं पडहमासत्वपक्षमनुस्मरन्तः पण्मासानेव वदन्ति-नव पट्सत चाष्टौ च मासान् स्वपिति राक्षसः इति ॥१६॥ ननु सुप्तः कथं बोषयितुं शक्य इत्याशङ्कय इदानीमेव स्वापारम्भात् सुप्रबोधोऽयमित्याशयेनाह-मन्त्रयित्वेति । अत्र केचित्-' एकाई जागरिष्यति' इति कुम्भ बोधनं प्रतीति शेषः ॥ १४-१५ ॥ मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनीत्यनेनायमों दर्शितः-इतः लङ्कावरोधदिवसात नवमेऽहनि मसुप्त इत्यर्थः । तथाहि For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy