SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इति एवंप्रकारेण इक्ष्वाकुकुलनाथेन अनरण्येन यत् यस्मात् पुरा विदितं प्रतिज्ञातम् । " विदितो ज्ञातविश्रुतौ " इति नानार्थरत्नमाला । तस्मात् मानुषं रामं दशरथात्मजं दशरथ पुत्रत्वेन जातं मन्ये । राक्षसाधम कुलाधमेति जातितः कुलतश्च नीचत्वमुच्यते । दुःखातिरेकादनरण्योक्त परुषानुवादः । अन्ये तु त्वामिति द्विरुक्तिरनुस्मरणार्थेत्याहुः । अपरे त्वाग्रहातिशयेन द्विरुक्तिरिति । त्वां प्रत्युत्पत्स्यत इति द्वितीयत्वां शब्दान्वय इत्येके || ८|| ९ || शप्तोऽहं वेदवत्या च यदा सा धर्षिता पुरा । सेयं सीता महाभागा जाता जनकनन्दिनी ॥ १० ॥ उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका । यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ॥ ११ ॥ एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ । राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir | किंचाई पुरा वेदवत्या शप्तोऽस्मि । मत्कृते तव विनाशो भविष्यतीति । कद्देत्यत्राह यदेति । सा वेदवती यदा घर्षिता बलात्कृता तदा । अद्य तया किं क्रियते ? सीता ह्येतदुपद्रवमूलमित्यत्राह सेयमिति । सा वेदवती स्वशापनिर्वाहार्थं सीता जाता ॥ १० ॥ उमादयश्वत्वारः तपसा तपःप्रभावेन यथोक्ताः यथोक्तवन्तः तथा प्राप्तं सिद्धम् । ऋषिभाषितं न मिथ्या भवति हि । नन्दीश्वररम्भाज्ञापावुत्तररामायणे प्रोक्तौ । उमावरुणकन्यकाशापो चानेनैव सिद्धौ ॥ ११ ॥ एतत् शापस्वरूपम् । अभ्युपागम्य ज्ञात्वा । इह प्रकृते शत्रुविजये कार्ये । यत्नम् अवधानं कर्तुमर्हथ । चर्याः गोपुरपार्श्वस्थ भटसञ्चार स पुरुषो मशे त्वां प्रत्युत्पत्स्यते हि इति । यद्यस्मात्कारणादिक्ष्वाकुकुलजातेन अनरण्येन पुरा शप्तोऽहं तस्मान्मया पूर्वमेव विदितं दशरथात्मजं रामं मानुषं मन्य इति सम्बन्धः । स्वामिति द्विरुक्तिराग्रहातिशयेन ॥ ८ ॥ ९ ॥ शप्तोऽहमिति । वेदवत्या चाहे शप्तः । कुतः ? पुरा यदा यस्मात्कारणात सा वेदवती धर्षिता । अस्तु, प्रकृते किमायातमत आहे सेयमिति । महाभागा सैव वेदवत्येव जनकनन्दिनी सीता जातेत्यर्थः ॥ १० ॥ उमेति । तपसा तपोबलेन यथोक्तं तत्तथैव मया प्राप्तम् अतस्तदृषिभाषितं न मिथ्येति सम्बन्धः । यथोक्तं तन्मया प्राप्तमिति वा पाठः । एतैर्यथा उक्तं तन्मया प्राप्तमित्यर्थः । उमाशापस्तु कैलासगिरिचालनवेलायां रावण! ते स्त्रीनिमित्तं वध इत्येवंरूप इति ज्ञेयम् । नन्दीश्वरशापस्तु उत्तररामायणे 'यस्माद्वानरमूर्ति मां दृष्ट्वा राक्षस दुर्मते । मौख्यन्मामवजानीषे परिहासं च मुखसि । तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ते वधार्थं हि कुलस्य तब वानराः ॥ " इति । रम्माशब्देन रम्भा निर्बंन्धकृत नलकूबरशाप उच्यते । तदुक्तमुत्तरकाण्डे " यदा त्वकामां कामात धर्षयिष्यति योषितम् । मूर्दा तु शतधा तस्य शकलीभविता तदा ॥ " इति । वरु कन्यका पुञ्जिकस्थला । तेन च तत्रिबन्धन ब्रह्मशापो विवक्षितः । सोऽपि स्त्रीधर्षणनिमित्तवधरूपः ॥ ११ ॥ एतदेव एतच्छापनिमित्तमेव अभ्युपागम्य For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy