SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा.रा.भू. ॥१८२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कुम्भकर्णप्रबोधनं षष्टौ स प्रविश्येत्यादि । रामवाणभयार्दितः किमिदानीमपि रामवाणाः पतेपुरिति भयपीडितः । व्यथितेन्द्रियः दुःखित मनस्कः ॥ १ ॥ मनोव्यथामुपपादयितुं तद्धेतुं सदृष्टान्तमनुवदति-मातङ्ग इवेति । महात्मना महाभावेन, बलवतेत्यर्थः ॥ २ ॥ ब्रह्मदण्डेति । ब्रह्मदण्डः ब्रह्मशापः सर्वास्त्रनिगरणक्षमो वसिष्ठदण्डो वा ब्रह्मास्त्रं वा । युगान्तकालसमुत्थितोऽग्रिवर्णो धूमकेतुरित्येके । तत्प्रकाशानां बाणानामिति स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥ मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ २ ॥ ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन राघवबाणानां विव्यथे राक्षसेश्वरः ॥ ३ ॥ स काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥४॥ सर्व तत् खलु मे मोघं यत्तप्तं परमं तपः । यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ ५ ॥ इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ ६ ॥ देव दानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ ७ ॥ विदितं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ॥ ८ ॥ उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम । यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् । निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ॥ ९ ॥ LL ' अधीगर्थदयेशां कर्मणि " इति षष्ठी ॥ ३ ॥ ४ ॥ सर्वमिति । मे मया यत्तपस्तप्तं तत् सर्व मोघमू, जातमिति शेषः ॥ ५ ॥ ब्रह्मवाक्यं तु फलित | मित्याह - इदमिति । त्वं मानुषेभ्यो भयं विजानीहीति यत् ब्रह्मणो घोरं वाक्यं तदिदं मामभि मां प्रति उपस्थितं मयि फलितमित्यर्थः । यतस्तत् ब्रह्म वाक्यं तथा । न तु मोघं भविष्यतीत्यर्थः ॥ ६ ॥ देवेति । प्राप्तं याचित्वा प्राप्तम्, मानुषेभ्योऽवध्यत्वं नैव याचितमित्यर्थः ॥ ७ ॥ विदितमित्यादि सार्व श्लोकद्वयमेकान्वयम् | यस्त्वामित्यत्र तु आमिति छेदः । आमित्यङ्गीकारे । यस्तु पुरुषस्त्वां सङ्ग्रामे निहनिष्यति सः मद्वंशे उत्पत्स्यते । अ निश्चितम् । ॥ १ ॥ २ ॥ ब्रह्मेति । ब्रह्मदण्डप्रकाशानां ब्रह्मदण्डो नाम युगान्तकालसमुत्थितोऽग्रिवर्णो धूमकेतुः । यद्रा ब्रह्मदण्डो ब्रह्मास्त्रम् । राघवबाणानामिति कर्मणि षष्ठी | ३-५ ॥ इदमिति । त्वं मानुषेभ्यो भयं विजानीहीति ब्रह्मणो घोरं यद्वाक्यं तदिदं मामभ्युपस्थितम्, तद्वाक्यं तथा अमोघमित्यर्थः ॥ ६ ॥ ७ ॥ विदितमित्यादि सार्धश्लोकद्वयमेकम् । शप्तोऽहमित्येतदुपरितनं काकाक्षिन्यायेनात्रापि सम्बध्यते । हे राक्षसाधम । यः सपुर्व सामात्यं त्वां सङ्ग्रामे निहनिष्यति For Private And Personal Use Only टी.यु.का. स० ६० ॥ १८१७
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy