________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
किञ्च अहं हतलक्ष्मणादिप्रवीरच कृतोऽस्मि । तस्मात् अनेकवीरपतनावधिकरणकरणात् । त्वं परिश्रान्तः आयुधधारणेऽपि श्रान्त इति व्यवस्य निश्चित्य त्वां मृत्युवशं मृत्योरधीनतां न नयामि, चिररणपरिश्रान्तकृन्तनकृतापवादापनोदाय सम्प्रति भवतः प्राणापहरणकर्मणो विश्मामीत्यर्थः ॥ १४३ ॥ गच्छेति । रिपौ पुरो विलसति कथं गच्छेयमित्यत्राह अनुजानामीति । रणार्दितः युद्धे श्रान्तः । रात्रिचरराज कूटयोधिन् ! इति सापड़ा गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् । आश्वास्य निर्वाहि रथी च धन्वी तदा वलं द्रक्ष्यसि मे रथस्थः ॥ १४४ ॥ स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः । शरार्दितः कृत्तमहा किरीटो विवेश लङ्कां सहसा स राजा ॥ १४५ ॥ तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ । हरीन विशल्यान सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥ १४६ ॥ तस्मिन प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च । ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ १४७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
सोक्तिः । आश्वास्य विश्रम्य । रथी धन्वी च सन्नियादि । स त्वं तदा तादृशं मे बलं रथस्थ इत्युपलक्षणम् धानुष्कश्च सन् द्रक्ष्यसीत्यन्वयः ॥ १४४ ॥ स इति । अत्र क्रियाभेदात्तच्छन्दत्रयमिति न तद्वैयर्थ्यम् । सहता मुकुटभङ्गकृत लज्जयेति भावः ॥ १४२ ॥ तस्मिन्निति । प्रविष्टे, लङ्कामिति शेषः । दानवदेवशत्रावित्यनेन रावणनिर्गमो देवदानवह पहेतुरिति सूच्यते । सह लक्ष्मणेनेति । लक्ष्मणस्य पूर्वमेव विशल्यत्वेप्यादरात पुनः करणम् । पर | माहवाय इत्यनेन विशल्यकरणं विना सुग्रीवादीनां हरीणामन्यत्रानयनासंभवः सूच्यते ॥ १४६ ॥ पूर्वसूचितं देवादिहर्षे प्रपञ्चयति तस्मिन्निति । || प्रभिन्ने पराजिते । दिशः दिक्पालाः सागराः सागरवासिनः । अम्बुचराः सागरभिन्नाम्बुचराः । हृष्टाः वभूवुरिति शेषः । पष्ठयां रावणमुकुटभङ्गः | ॥ १४७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥ गच्छानुजानामीत्याश्वास्य विश्रम्य ॥ षष्ठयां रावणस्य प्रथमपराजयः ॥१४४-१४७॥ इति श्रीमहे० श्रीरामायण० युद्धकाण्डव्यारूपायाम् एकोनषष्टितमः सर्गः ॥ ५९॥ स०-तोरणात् रणमण्डलात् प्रयाहि । जानामि अनुजानामि । प्रयाहि जानामि इति पाठः । उपसर्गाच धातुलीनार्थयोत का इत्युपपद्यते अनुजानामीति । रथी सहायातानेकरथवान् । सम्वीत्यप्येव नेव स रवं धन्वति वा । प्रेक्ष्यसि प्रेक्षिष्यति ॥ १४४ ॥ भूम्यम्बुचराः भूमिचराः अम्बुचराः मनुष्यादयो यादांसि च । प्रहृष्टाः सर्वोपकर्तृपस्य सर्वापेक्षितत्वादिति भावः ॥ १४७ ॥
For Private And Personal Use Only