________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
दश वा दिशो वेत्यत्र एको वाकारश्चार्थः॥ १३२ ॥ यश्चैवेति । अथ य एप त्वया शस्त्याऽभिहतः स एषः तव विषादमिच्छन् सन् सपुत्रदारस्य। तव मृत्युः सन् सहसा अभ्युपेतः अभ्युपागतप्रायः, अचिरादागमिष्यतीत्यर्थः । यदा अभेदेनोच्यते । यः शक्त्याऽभिहतः स पवाहमागतवानसिमः। लक्ष्मणं प्राहरमिति मागा गर्वमिति भावः ॥ १३३॥ लक्ष्मणेनाप्रहतः कथं त्वया प्रहृतः स्यामित्याशय स्वपराकमविशेष दर्शयति-एतेनेति।।
यश्चैव शक्त्याऽभिहतस्त्वयाऽद्य इच्छन् विषादं सहसाऽभ्युपेतः स एव रक्षोगणराज मृत्युःसपुत्रदारस्य तवाद्य युद्धे ॥ १३३ ॥ एतेन चात्यदुतदर्शनानि शरेर्जनस्थानकृतालयानि । चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ॥ १३४ ॥ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् । वायुपुत्रं महावीर्य वहन्तं राघवं रणे । [रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन् । ] आजवान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ १३५॥ राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ १३६ ॥ ततो रामो महातेजारावणेन कृतव्रणम् । दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥ १३७ ॥ तस्याभिचक्रम्य रथं सचक्र साश्वध्वजच्छन्न महापताकम् । ससारथिं साशनिशुलखङ्गं रामः प्रचिच्छेद शरैः सुपुकैः ॥ १३८॥ अथेन्द्रशत्रु तरसा जघान बाणेन वज्राशनिसन्निभेन । भुजान्तरे व्यूढसुजातरूपे वजेण मेरे भगवानिवेन्द्रः ॥ १३९ ॥ एतच्छन्दः सन्निहितपरः । एषोऽस्मीत्यादिप्रयोगात् अयं जन इति प्रयोगाच्च । मयेत्यर्थः। मृत्युशन्दापेक्षया वा एतेनेत्युक्तिः। चतुर्दशानि चतुर्दश। शब्दादर्शआयचि टिलोपे कृते जसि रूपम् । यद्वा एतेनेति स्वाभेदेन लक्ष्मगो निर्दिश्यते ॥ १३४ ॥ राघवस्येत्यायत्रियमेकं वाक्यम् । वहन्तामति । आत्मानं प्रहत्य पुनरपि रामं वहतीति कोधादिति भावः ॥ १३५ ॥ राक्षसेनेति । स्वभावतेजः स्वाभाविकतेजः ।। १३६ ।। तत इति । एयिवान् प्राप्त ॥१३७ ॥ अभिचक्रम्य पौनःपुन्येन समीपं गत्वा ॥१३८॥ बज्राशनिसन्निभेनेति बाणस्य वज्रसाम्यमुच्यते । वज्रेण मेरुं भगवानिवेन्द्र इति इच्छन मोडुमिच्छन् ॥ १३३ ॥ एतेन लक्ष्मणेन शौः चतुर्दशानि चतुर्दशसमयावन्ति रक्षसां सहस्राणि निषूदितानीति सम्बन्धः । उभयोरेक्यविवक्षया लक्ष्मणेन निघूदितानीत्युक्तम् ॥ १३४-१३७ ॥ अभिसंक्रम्य संयुक्तो भूत्वा ॥ १३८ ॥ म्यूढं विशालम् सुजातरूपं राजाईमहाभरणचन्दनादिभिः प्रशस्त
Far Private And Personal Use Only