________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ १७९ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
साधनानुष्ठानं किमपि न कृतवानित्युक्तम् ॥ १२२ ॥ १२३ ॥ निपातितेति । द्रवन्तीमिति रावणस्य बाणसन्धानदर्शनादिति भावः ॥ १२४ ॥ अथेति । अईसीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ १२५ ॥ विष्णुर्यथेति सार्धश्लोक एकान्वयः । वायुपुत्रेण भाषितं तद्वाक्यं श्रुत्वा समाहितः सन् विष्णु | र्गरुत्मन्तं यथा तथा महाकपिं हनुमन्तमारुरोद्देति योजना || १२६ ॥ रथस्थमित्यर्धमेकं वाक्यम् ॥ १२७ ॥ तमालोक्येत्यनुवादः अव्यवहितपूर्व
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे । आददे निशितान् बाणान् जग्राह च महद्धनुः ॥ १२३ ॥ निपातित महावीरा द्रवन्तीं वानरीं चमूम् । राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ १२४ ॥ अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत् । मम पृष्ठं समारुह्य राक्षस शास्तुमर्हसि ॥ १२५ ॥ विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः । तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् । आरुरोह महाशूरो बलवन्तं महाकपिम् ॥ १२६ ॥ रथस्थं रावणं सङ्ख्यै ददर्श मनुजाधिपः ॥ १२७ ॥ तमालोक्य महातेजाः प्रदुद्राव स राघवः । वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यता युधः ॥ १२८ ॥ ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् ॥ १२९ ॥ गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १३० ॥ तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् । क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ १३१ ॥ यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा । गमिष्यसि त्वं दश वा दिशोऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ १३२ ॥
कालद्योतनार्थः । अभ्युद्यतायुधः क्रुद्धो राघवः विष्णुर्वैरोचनं बलिमिव प्रदुद्राव । साग्रहगमनमात्रे दृष्टान्तः ॥ १२८ ॥ ज्याशब्दमित्यर्धम् । वज्र निष्पेषः स्फूर्जथुः । “स्फूर्जथुर्वज्रनिष्पेषः" इत्यमरः ॥ १२९ ॥ गिरेत्यर्धम् ॥ १३० ॥ तिष्ठ तिष्ठेति । ईदृशं लक्ष्मणप्रहाररूपं सीताहरणरूपं वा । मोक्षं, मत्त इति शेषः ॥ १३१ ॥ यदीति । इन्द्रादीन् वा स्वयम्भ्वादीन् वा यदि गमिष्यसि यद्यपि गमिष्यसि तथापि अद्य मत्समीपं गतस्त्वं मे मत्तः न विमोक्ष्यसे । स्मरणमेव कारणमित्याह-आश्वस्त इति यतो लक्ष्मणोऽमीमांस्यं मीमांसाया अविषयं विष्णोर्भागमात्मानं प्रत्यनुस्मरत तत आश्वस्तो विशल्यश्चेत्यर्थः ।। १२२-१३२॥
For Private And Personal Use Only
टी.यु.कॉ
स०५९
॥ १७९॥