SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir शहर्षेणेति शेषः ॥ १८॥ अभ्याशं समीपम् ॥ ११९॥ ननु पूर्व हिमवानित्यादिना लक्ष्मणस्याकम्प्यत्वमुक्तम्, तादृशस्य कपिना रामसमीप पापणं कथमित्याशय विरोधं परिहरति-वायुसूनोरिति । सुहृत्त्वेन शोभनहृदयत्वेन, अनुकूलहृदयत्वेनेत्यर्थः । हृदयानुकूल्यमेवालम्, भक्तिस्त्व। धिकेत्याह भक्त्या परमया चेति । चशब्दोऽन्वाचये । सः लक्ष्मणः। शत्रूणां रावणस्य तत्परिक्रराणां चेत्यर्थः । अप्रकम्प्योऽपि कम्पितुमशक्योऽपि । हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् । अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ ११९॥ वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः । शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत् कपेः ॥ १२०॥ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् । रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ॥ १२१॥ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः । विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ १२२॥ कपेः कपेरपि । हनुमत एकस्य लघुत्वमगमत् लघुत्वमकरोत् । अनेन लघुत्वस्य बुद्धिपूर्वकत्वमुक्तम् । शत्रुमित्रयोर्दुष्पापत्वसुप्रापत्वे स्वरूपप्रयुक्ते । अस्येति भावः । मूञ्छितस्थापि लक्ष्मणस्य ज्ञानशक्तिप्रतिपादनेन तत्र तत्र राघवयोरज्ञानाशक्तिप्रत्यायकानि वचनानि मानुषवेषनिर्वहणपराणीति मन्तव्यानि ॥ १२०॥ तमिति । दुर्जयमिति हेतुगर्भम् । तस्य दुर्जयस्वरूपत्वाच्छक्तिस्तं त्यक्त्वा गतेति भावः । एतच्छ्लोकानन्तरमाश्वस्त इति श्लोकः। ततो रावणोऽपीति श्लोकः पठनीयः ॥ १२१ ॥ आश्वस्त इति । आश्वस्तः लब्धसंज्ञः । विशल्यः प्ररूढवणमुखः, अभवदिति शेषः । अकाण्डे शक्ति निर्गमाश्वासनविशल्यत्वेषु को हेतुरत आह-विष्णोरिति । विरोधिप्रत्यनीकस्वभावत्वादिति भावः । अमीमांस्यम् अचिन्त्यम् । अनुस्मरन्नित्यनेन पूर्व हिमवानित्यादिना लक्ष्मणस्याप्रकम्प्यत्वमुक्तम्, तारशस्य कपिना तोलनं राघवसमीपप्रापणं च कथमित्याशय विरोध परिहरति-वायुसनोरिति । शपूणा मिति बहुवचनेन लक्ष्मणोद्धरणसमये रावणस्यानुचरैस्साहाय्यं कृतमिति गम्यते । मूछित्तस्यापि सौमित्रेनिशक्तिप्रतिपादनेन तत्र तत्र रामलक्ष्मणयोरज्ञाना शक्तिप्रत्यायकानि वचनानि मानुषवेषनिर्वहणपराणीति मन्तव्यानि । तत्र श्रीशुक:-"मावतारस्विह मर्त्यशिक्षण रक्षोवधायेव न केवलं विभोः । कुतोऽन्यथा - स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्थ ॥" इत्यनेनाप्रकम्प्यस्यापि हनुमद्भक्तिसौहार्दाभ्यां तं प्रति लघुत्वप्राप्तिर्न विरुद्धचत्त इत्युक्तं भवति लघुत्व मिति ॥ १२०॥ तं समुत्सृज्य ब्रह्मत्वेन ध्यानात्तत्समुत्सर्गः । स्थानं स्थितिम् ॥ १२१ ॥ यत्नं विनव लक्ष्मणमपहाय कथं शक्तिर्गतवतीत्याशङ्कच तत्रापि स्वांश For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy