SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir VIरावणस्येति । रावणवचनं ज्ञात्वा तदचितमुत्तरमाह प्रहृतं हीति ॥ ५९॥ रामानु-ज्ञातविकान्तमिति वचनं सोलुण्ठनं ज्ञात्वा तदुचितमुत्तरमाह-प्रहतामांत ॥ ५९॥ एवमुक्त इति । मर्मोहाटनेन सनातरोष इत्यर्थः ॥ ६॥ स इत्यादि । तलेनेति । रावणेन तलेन प्रहरणात् स्वयमपि तलेनैव प्राहरदिति भावः॥६॥ रावणस्य वचः श्रुत्वा वायुमुनुवचोऽब्रवीत् । प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ ५९ ॥ एवमुक्तो महातेजा रावणो राक्षसेश्वरः। आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६०॥ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः । स्थित्वा मुहूर्त तेजस्वी स्थैर्य कृत्वा महामतिः। आजधानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ॥६१ ॥ ततस्तलेनाभि हतो वानरेण महात्मना । दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ॥ ६२॥ सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडि तम् । ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ॥ ६३ ॥ अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ॥ ६४॥ साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः । रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥६५॥ धिगस्तु ममवीर्येण यस्त्वं जीवसि रावण । सकृत्तु प्रहरेदानी दुर्बुद्धे किं विकत्थसे। ततस्त्वां मामिका मुष्टिनयिष्यति यमक्षयम्॥६६॥ ततो मारुतिवाक्येन क्रोधस्तस्य तदाऽज्वलत् ॥ ६७ ॥ संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ॥ ६८॥ तत इति । समाधूतः कम्पितः अभूत् । भूमिचले भूकम्प सति अचलः गिरियथा ॥ ६२-६५ ॥ धिगस्त्विति । वीर्येणेति द्वितीयाभाव आर्षः । यस्त्वं जीवसि, मया प्रहृतोऽपीति शेषः । सकृत्तु प्रहर । शत्रुणा प्रहते पुनरात्मनः प्रहारो विक्रमपरिपाटीमाटीकत इति हनुमतो हृदयम् । इदानीमिति, पूर्व मदनवधानाजीवसीति भावः। दुर्बद्ध प्रहारतारतम्यानभिज्ञ । किं किमर्थ विकत्थसे श्वापसे ? “कत्थ श्लाघायाम्" इति धातुः । यमक्षयं यमनिलयम् । "निलयापचयो क्षयो" इत्यमरः ॥६६॥ तत इति । ततः तेनेत्यर्थः । अन्यथा तदाशब्दोऽतिरिच्येत । अज्वलत् ववृध इत्यर्थः॥६७॥ संरक्तेति। वीर्यवान् अक्षं तन्नामानं सुतं स्मर, मत्पराक्रमज्ञानायेति शेषः॥५९-६५ ॥ धिगिति । धिक्ष वीर्येण, वीर्यमित्यर्थः । यस्त्वं जीवसि, मया हतोऽपीत्यर्थः ॥ ६६-७१ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy