________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
पा.रा.भू.
टी.पु.की. स.
१७४॥
छिद्राणि यथा न भवन्ति तथा पश्येत्यर्थः । यदा लक्षय लक्षित्वा प्रच्छादयेत्यर्थः। एवं समाहितः सावधानः सन् धनुषा आत्मानं रक्ष॥५०॥ अभिपूज्य प्रदक्षिणीकृत्येत्यर्थः ॥५॥५२॥ तमालोक्येति ।भृत्ये मयि विद्यमाने कथमसौ समासीदतीति जगामेत्यर्थः ॥५३॥५४॥ भयं, प्राप्तमिति शेषः॥५५॥
राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च। अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥५१॥ स रावणं वारण हस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् । प्रच्छादयन्तं शरवृष्टिजालस्तान वानरान भिन्नविकीर्णदेहान् ॥५२॥ तमा लोक्य महातेजा हनुमान मारुतात्मजः । निवार्य शरजालानि प्रदुद्राव स रावणम् ॥५३॥ रथं तस्य समासाद्यभुज मुद्यम्य दक्षिणम् । त्रासयन रावणं धीमान् हनुमान् वाक्यमब्रवीत् ॥ ५४॥ देवदानवगन्धर्वेर्यक्षैश्च सह राक्षसैः । अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥ ५५ ॥ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः । विधमिष्यति ते देहाभूतात्मानं चिरोषितम् ॥५६॥ श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः । संरक्तनयनः क्रोधादिदं
वचनमब्रवीत् ॥५७॥ क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि । ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥५८॥ एष इति । पञ्चशाखः पञ्चाङ्गुलिकः भूतात्मानं विधमिष्यति निष्कामयिष्यति । धातूनामनेकार्थत्वात् ॥५६॥५७ ॥ क्षिप्रमिति । स्थिरां कीर्ति मवानुद्दीति सोपालम्भोक्तिः। हनुमान् रावणमुपसृत्य प्रहृतवानित्येतादृशीं कीर्तिमवाप्स्यसीत्यर्थः । ज्ञातविकान्तं ज्ञातविक्रमम् । भावे क्तः ॥५८॥ धनुषा धनुर्व्यापारेणात्मानं रक्ष ॥ ५०-५५ ॥ एपम इति । पञ्चशाखा पक्ष शाखाः अहलयो यस्मिन सः । भूतात्मानं जीवात्मानम् । विधमिष्यति निष्का सयिष्यति ॥ ५६ ॥५७ ॥ स्थिरी कीर्तिमवाप्नहीति । इयमुपालम्मोक्तिः। हनुमावाषणमुपसृत्य प्रहतवानियेतारशी कीर्तिमाहीत्यर्थः । ज्ञातविक्रान्तं विज्ञातपराक्रमम् ॥ ५८॥ | सा-वानरेभ्यः कपिभ्यः । तेम्पोऽकृतत्वावरस्येति भावः । नरेभ्य इत्यपि कपिसाभ्याक्तव्यम् । तथापि तस्यैव पुरःस्थितेः स्वजालेडणमित्यवगन्तव्यम् । वानरेभ्य इत्यत्राया तत्रापि पदच्छेदेन वानरेन्यो पवा तेभ्य इस नरेम्बोपि मयमित्यन्वयकरणेन तदुतियेति अस्मत्तः कपिम्य इत्यनुक्त्वा उक्त्वा च वानरेन्य इति कविर्भनयाचके ॥ १६ ॥ यतो येन । मुत सन्तोषः । स ते गहः अदक्षिणः ताडनाशकः ।
मसमर्थ इति यावत् । एष मे पनशाखो हस्तः ते देहे चिरोषितं भूतात्मानं प्राणं विधमिष्यति बहिनिस्सारयति । भभूतात्मानं मुख्यप्राणमिति वा । विधामिष्यति ते देहे भूतात्मानमिति पाठः ॥ १९॥
॥१७॥
For Private And Personal Use Only