________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
मत्युक्तम् । तथैव घट्टकुटयां प्रभातमित्याह तमिति । तम् आतंत्राणत्वरया वजन्तम् । लक्ष्मणः रामकैर्यलक्ष्मीसम्पन्नः। अनतिकमणाय नाथं पानिगलयति प्राञ्जलिरिति। अभ्युपेत्य अभितः उपेत्य । अनेन लक्ष्मणागमनमजानन्निव नानापार्येषु रामोऽनेकधा जगामेत्यवगम्यते । परमार्थयुक्तं न । तूपचारयुक्तम् । यद्वा परमार्थयुक्तं परमप्रयोजनयुक्तम् । शेषिविषये कैकयस्य शेषभूतं प्रति परमप्रयोजनत्वात् ॥१६॥ काममिति । हे आर्य !
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥४७॥ तमब्रवीन्महातेजा रामः सत्यपराक्रमः॥४८॥ गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे। रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥ ४९॥ तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय । चक्षुषा
धनुषा यत्नाद्रक्षात्मानं समाहितः॥५०॥ अस्य दुरात्मनः परदारापहरणविषयदुर्बुद्धेः कामं प्रकामं वधाय सुपर्याप्तः सुशक्तोऽसि । तथापि नीचं भवता योद्धमनहम् । अहं वषिष्यामि । महा। बलेन भवता नीचोऽयं न योढुमर्ह इति भावः। यदा अस्य वधायाहं पर्याप्तोऽस्मीत्यर्थः । तर्हि स्वयमेव गम्यतामित्यवाह अनुजानीहीति । प्रभो शेपिन् । त्वं मां शेषभूतमनुजानीहि । भवदनुज्ञामन्तरेण में कार्यकरणं स्वरूपहानिकरमिति भावः ॥ १७ ॥ तं विनयेनोक्तवन्तम् महातेजाः तादात्विकहर्षप्रकविदकसुषमाविशेषशाली । सति कस्मिंश्चिद्विधेये सति । अपराक्रमः निवृत्तपराक्रमः, अब्रवीत् ॥ १८॥ नीचपदसूचितमनादरं वारयति-पत्नपर इति । युद्धे यत्नपरश्चापि भव, यथा युद्धपरोऽसि एवं यत्नपरो भव । यत्नस्यावश्यकर्तव्यत्वे हेतुमाह रावण इति । अद्भतपराकमःIM पकमस्त्रमाददान इवापरं सन्धत्ते, तत्सन्दधान इवापरं मोक्षयतीत्यर्थः । त्रिलोक्येव त्रैलोक्यं तेन, युगपयुद्धप्रवृत्तेनेत्यर्थः ॥ १९ ॥ यत्नपरत्वल लादर्शयति-तस्येति । चक्षुषा तस्य रावणस्य । छिद्राणि अनवधानादीनि । यत्नान्मार्गस्व अन्वेषयस । स्वच्छिद्राणि लक्षय काकान् पश्यतिवत् स्वस्य
रित्यत्र त इति छेदः ॥४६-४८ ॥ प्रैलोक्येनापि तद्वर्तिदेवादिसमूहरित्यर्थः ॥ ४९॥ छिद्राणि महारावसरान । स्वरिछद्राणि चेत्यस्य गोपयेति शेषः । ततो l स.-छिद्राणि मर्माणि मार्गस्व परीक्षस्व । स्वपित्राणि गोपय रक्ष । चक्षुषा ते लक्षय । स्वसमाहितः स्वैनैव समाहितः । समसमरे बक्ता नान्योऽस्तीति भावः । एतामयुक्तिः कुत इत्यतो बाऽह-वसमा । हितः सु अत्यन्तम् भसमो विधमः भहितो मेरी यस्य स तथा स्वमित्यर्थः ॥१०॥
For Private And Personal Use Only