________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ४१७२ ।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ त्रिभी रावणं दर्शयति-यश्चेति । विवृत्तनेत्रैः घूर्णितनेत्रैः ॥ २३ ॥ २४ ॥ नगेन्द्रः हिमवान् ॥ २५ ॥ दीप्तः कान्तिमान् । महातेजाः महाप्रतापः ॥ २६ ॥ आदित्य इव रश्मिभिः दुष्प्रेक्षः प्रेक्षितुमशक्यः । अनयोरर्थयोर्भिन्नवाक्यत्वान्न पुनरुक्तिशङ्का ॥ २७ ॥ देवेत्यर्धद्वयमेकं वाक्यम् ॥२८॥२९॥
यश्चैष नानांविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववत्रैः । भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता ॥ २३ ॥ यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् । अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ २४ ॥ असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः । महेन्द्रवैवस्वतदर्पहन्ता रक्षो
सूर्य इवाभाति ॥ २५ ॥ प्रत्युवाच ततो रामो विभीषणमरिन्दमम् । अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥२६॥ आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः । सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ॥२७॥ देवदानव वीराणां वपुर्नैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ॥ २८॥ सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधाश्वास्य महौजसः ॥ २९ ॥ भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः । भूतैः परिवृतस्तीक्ष्णे देहवद्भिरिवान्तकः ॥ ३० ॥ दिष्टयाऽयमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भ वम् ॥ ३१ ॥ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्। लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३२ ॥ ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ३३ ॥ देहवद्भिः प्रशस्तदेदैः ॥ ३० ॥ क्रोधं विमोक्ष्यामि क्रोधं कार्यकरं करिष्यामीत्यर्थः । मम दृष्टिपथं गत इति पाठः ॥ ३१ ॥ ३२ ॥ द्वारेषु अन्तर्द्वारेषु । कासो ? तत्राह यत्रेति । यत्र देशे इन्दुप्रतिमत्वादिगुणकं छत्र भाति तत्रैव रक्षोधिपतिः । भूतैः भूतगणैः ॥ २४ ॥ नगेन्द्रो यो विन्ध्यः तद्वद्भीमः कायो यस्य सः ॥ २५ ॥ २६ ॥ सुव्यक्तं लक्षये इत्यत्र हेतुः तेजस्समावृतमिति । रूपं सूक्ष्मावयवसंस्थानम् ॥ २७ ॥ २८ ॥ पर्वतयोधिनः पर्वतैः सह योद्धुं शीलमेषामस्तीति पर्वतयोधिनः । प्रतियोद्धभावात् भुजकण्डूतिनिवृत्यर्थं पर्वतैस्सह युध्यन्तीत्यर्थः ॥ २९ ॥ देहवद्भिः प्रशस्तदेहैः ॥ ३०-३२ ॥ द्वारेषु आन्तरमाकारद्वारेषु ।
For Private And Personal Use Only
टी. यु.वर्त
स० ५९
॥ १७२ ॥