SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir निनदेन प्रभूतो नादो यस्य तम् ॥ १७ ॥ योऽसौ हयमिति । काञ्चनचित्रभाण्डं काञ्चनमयनानाविधाश्वाभरणम् । “स्याद्भाण्डमश्वाभरणे" इत्यमरः । अत एव । सन्ध्यागिरिप्रकाशं सन्ध्याघ्रयुक्तगिरिप्रकाशं हयमारुह्य । मरीचिनद्धं किरणेद्धं प्रासमुद्यम्य गर्जतीति पूर्वश्लोकादनुपज्यते । एष पिशाचः पिशाच नामकः ॥१८॥ यश्चेति । किङ्करो वज्रवेगो यस्य तत् किङ्करवज्रवेगम्, वज्रवेगादप्यधिकवेगमित्यर्थः । वृषेन्द्रं वृषभेन्द्रम् । योऽसौ प्रसिद्धोऽसावित्यर्थः योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् । प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्य वेगः ॥ १८॥ यश्चैष शुलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम् । वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योऽसौ त्रिशिरा यशस्वी ॥ १९॥ असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूटसुजातवक्षाः । समाहितः पन्नग राजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ॥ २० ॥ यश्चैष जाम्बूनदवजजुष्टं दीप्तं सधूर्म परिघं प्रगृह्य । आयाति रक्षाबलकेतुभूतस्त्वसौ निकुम्भोऽद्भुतघोरकर्मा ॥ २१ ॥ यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ॥ २२ ॥ आयाति सोऽसौ त्रिशिरा इत्यपि पठन्ति ॥ १९ ॥ रामानु०-आयाति सोऽसौ त्रिशिरा यशस्वीति पाठः ॥ १९ ॥ असाविति । पृथुव्यूढसुजातवक्षाः पृथु पीनं व्यूढं विशालं सुजातं सुन्दरं च वक्षो यस्य स तथोक्तः समाहितः सन्नदः। धनुर्विस्फारयन् ज्यामवलम्ब्य कर्षन् । पुनलीलया विधून्वन् असो कुम्भो भाति । अत्र यच्छन्दाप्रयोगः सन्निहितत्वादिति भाव्यम् ॥ २० ॥ जाम्बूनदवज्राभ्यामन्योन्यमिलिताभ्यां जुष्टम् अत एव दीप्तं ज्वाला युक्तम् । सधूमं सधूममिव स्थितम् । अभेदनिर्देशः सर्वथा सादृश्यप्रतिपत्तये । रक्षाबलकेतुभूतः रक्षोबलप्रधानभूत इत्यर्थः ॥२१॥ उग्रः उन्नतः। नगशृङ्गे साधनैः युद्धयत इति नगशृङ्गयोधी । प्रतियोद्भभावात् भुजकण्डूनिवृत्त्यर्थ नगैः सह युध्यत इति वाऽर्थः ॥२२॥ काधनचित्रभाण्डं काचनरूपाणि चित्रभाण्डानि अश्वाभरणानि यस्य तम् । “स्यागाण्डमश्वाभरणे" इत्यमरः । सन्ध्याभ्रगिरिप्रकाशं सन्ध्यानयुक्तगिरिप्रकाशं । प्रासमुद्यम्य, आयातीति शेषः ॥१८॥ किङ्करबजवेगं किङ्करवद्यथोक्तकारिवजम् तत्समान वेगम् । त्रिशिराः अत्रापि कश्चित्रिशिराः॥१९॥ कुम्भः तन्नामा ॥ २० ॥ सधर्म नीलमणिकान्न्या सधूममिव स्थितम् ॥ २१ ॥ नगैश्च शृङ्गैश्च युध्यत इति नगशृङ्गयोधी ॥ २२ ॥ २३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy