________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.भ.
११७१॥
पताकाध्वजशस्त्रशुष्टमिति पाठः । शस्त्रशब्देन पठितव्यतिरिक्तान्यायुधान्युच्यन्ते ॥ १२ ॥ शकसमानवीर्य इत्यनेन वक्ष्यमाणं न भीतिमूलमिति द्योत्यते । बलप्रवेकंबल टी.यु.का. प्रवरम् । "प्रवेकानुत्तमोत्तमाः" इत्यमरः । महात्मनां महाधैर्याणाम् ॥१३॥ योऽसाविति । महात्मा महाकायः । नवोदितार्कोपमं ताम्रवक्र यस्य स तथा बालसूर्यमुखरामतुल्योऽस्य भुखराग इत्यर्थः । योऽसौ गजस्कन्धगतो दृश्यते सगजस्कन्धगतः स्वशरीरभारानागशिर कम्पयन्नुपैति, एनमकम्पनं रावण ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः। शशंप्त रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ १३॥ योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रबक्रः । प्रकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं स्वेनमवेहि राजन ॥१४॥ योऽसौ रथस्थो मृगराजकेतुडूंन्वन् धनुः शक्रधनु प्रकाशम् । करीव भात्युग्रविवृत्त दंष्ट्रः स इन्द्रजिनाम वरप्रधानः ॥ १५ ॥ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः। विस्फारयं श्वापमतुल्यमानं नाम्नाऽतिकायोऽतिविवृद्धकायः ॥१६॥ योऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।
गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ १७ ॥ पुत्रमवेहि ॥ १४॥ मृगराजकेतुः सिंहध्वजः । धनुः धून्वन्नित्यनेन भुजबलाधिक्यमुच्यते । करीवेत्यनेन कायबलम् । करितुल्यत्वे हेतुरुपविवृत्तदंष्ट्र इति । वरप्रधानः ब्रह्मदत्तान्तर्धानवरप्रधानः। अनेन वरबलमुक्तम् ॥ १५॥ यश्चेति । विन्ध्यादित्रयौपम्येन उन्नतत्वपरतेजोभिभावकत्वनिश्चलत्वान्यु च्यन्ते। अतिरथः सहस्राश्वयुक्तत्वेनातिशयितरथः अतिवीरःमायाबलाभावेऽपीन्द्रजितोऽप्यतिशयितवीर्यः। अतुल्यमानम् अतिशयितपरिमाणं चापम् । विस्फारयन् आकर्षनित्यर्थः । अवासावित्यध्याहार्यम् ॥ १६॥ योऽसौ नवेति । नवाकोंदितताम्रचक्षुःनवोदितार्कताम्रचक्षुः । घण्टानिनदप्रणादं घण्टा |निनदेन प्रकृष्टो नादः स्वनो यस्य तम् । खरमिति क्रियाविशेषणम् ॥ १७॥ रामानु०-योऽसाविति । योऽसौ नवार्कोपमताम्रचक्षुरिति पाठः । घण्टानिनदपणादं घण्टा युधान्येव शस्त्राणि तेर्जुष्टम् । महेन्द्रोपमनागष्टमिति पाठे-महेन्द्रपर्वतसदृशगजयुक्तम् । अभीरुभिः रक्षोभिः ॥ १२ ॥ बलमयेक बलश्रेष्ठम् ॥ ११ ॥प्रकम्पया ब्रागशिरः स्वशरीरभारादात्मारूढगजाशरः प्रकम्पयन्नित्यर्थः । अकम्पनम्-अयमकम्पनः पूर्वहतादन्य इति बोध्यम् ॥ १४॥ वरप्रधानः वरो ब्रह्मदत्तः प्रधान यस्य स तथोक्तः ॥१५॥ अतुल्यमानम् असदृशपरिमाणम् ॥१६॥ घण्टानिनदप्रणादं घण्टानिनदेन प्रभूतनादम् ! गजमारुन खरं यथा तथा गर्जतीति सम्बन्धः॥१७॥
For Private And Personal Use Only