________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स एवमिति । तुरङ्गोत्तमराजैः तुरङ्गश्रेष्ठतमैः युक्तम् । प्रकाशमानम् अलङ्कारैर्भासमानम् । वपुषा ज्वलन्तं स्वरूपत एव प्रकाशमानम् ॥७॥ स शङ्केति।आस्फोटितक्ष्वेलितसिंहनादैः आस्फोटितं भुजास्फालनम् श्वेलितशब्दःशब्दमात्रपरः । आस्फोटितजनितशब्दैः सिंहनादेश्वेत्यर्थः । पुण्यैः। चारुभिः॥८॥स इति । काठिन्यसिद्धये शैलौपम्यम् । सङ्कोचविकासार्हत्त्वसिद्धये मेघौपम्यम् । रूपं शरीरम् । रुद्रस्यासुरेश्वरत्वं तामसप्रकृतित्वात् । तदुक्तं
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समासरोहामरराजशत्रुः ॥७॥ सशसभेरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः । पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ८॥ स शैलजीमूतनिकाशरूपैर्मासादनैः पावकदीप्तनुत्रैः । बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ॥९॥ ततो नगर्याः सहसा महौजा निष्कम्य तद्वानरसैन्यमुग्रम् । महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैल हस्तम् ॥ १०॥ तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः। विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानु गतः पृथुश्रीः ॥ १॥ नानापताकाध्वजशजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् । सैन्यं गजेन्द्रोपमनागजुष्टं
कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १२ ॥ मैत्रायणीयानामुपनिपदि-"यो हवा अस्य तामसोईशः सोऽसौ रुद्रः" इति ॥९॥ महार्णवाभ्रस्तनितं महार्णवाभ्रयोरिव स्तनितं घोषो यस्येति तथा ॥३०॥ अतिप्रचण्डम अत्यन्तकोपनम् । भुजगेन्द्रबाहः युद्धोत्सुक्येन प्रवर्धमानबाहुरित्यर्थः। पृथुश्रीः युद्धहर्षेण सआतलक्ष्मीकः। सेनानुगतःस्वामिसंरक्षणाय 1 सर्वतःसमवेतसेनापरिवृतः। शस्त्रभृतां वरिष्ठं वीरभटतारतम्यज्ञमिति भावः॥ ३॥ नानेति। पताकाध्वजयोत्रिया भेदः। प्रथमं शस्त्रशब्द उपात्तःप्रासादि भिन्नपरः। आयुधं धनुः, इन्द्रायुधमित्यादौ तथा प्रयोगात्। प्रासासिशूलायुधरूपैः शस्त्रैर्जुटमित्यर्थः । वब्रजुष्टमिति पाठान्तरम् ॥ १२ ॥ रामानु०-नाना विनेति शेषः । वाणीः वानरानीक निर्देहिष्यामीति सम्बन्धः ॥६॥ तुरङ्गोत्तमराजयुक्तं तुरङ्गोत्तमराजाः श्रेष्ठतमतुरङ्गाः तेर्युक्तम् अतः प्रकाशमानं वपुषा च ज्वलन्तम्, तुरङ्गोत्तमभासा स्वभासा च प्रकाशमानमित्यर्थः ॥७॥ आस्फोटितक्ष्वेलितसिंहनादे: आस्फोटितेः भुजास्फालने श्वेलितसिंहनादेः मृगेन्द्रध्वनिसहशैः। वेलितेः। उपमितसमासोऽयम् । सहार्ये तृतीया ॥ ८-१० ॥ सेनया अनुगतः सेनानुगतः ॥ ११ ॥ प्रासासिशूलायुधशस्त्रजुष्टम आयुधानि धषि प्रामासिला
For Private And Personal Use Only