________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
S
कराग्रेरिति । अन्तर्दधे आच्छादयामास ॥५८॥ सपर्वतेति । हरिवाहिनी दक्षिणां महीम् अम्बुदसन्ततिर्यामिव छादयन्ती ययाविति संबन्धः ॥१९॥ उत्तरन्त्यामिति । सन्ततं निरन्तरं यथा भवति तथा उत्तरन्न्याम् । विपरीतवत् वैपरीत्यवत् । भावप्रधानो निर्देशः। बहुयोजनं च यथा भवति तथा
कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः । भीममन्तर्दधे लोक निवार्य सवितुः प्रभाम् ॥ ५८ ॥ सपर्वतवनाकाशा दक्षिणां हरिवाहिनी। छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः॥ ५९॥ उत्तरन्त्यां च सेनायां सततं बहु योजनम् । नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ ६०॥ सरांसि विमलाम्भांसि दुमाकीर्णाश्च पर्वतान् । समान भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच तिर्यक्चाधश्च साऽविशत् ॥६१॥ समावृत्य महीं कृत्स्ना जगाम महती चमूः ॥६२॥ ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः। हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६३॥ हर्षवीर्यवलोद्रेकान् दर्शयन्तः परस्परम् । यौवनोत्सेकजान दोन विविधांश्चक्रुरध्वनि ॥६४॥ तत्र केचिद्र द्रुतं जग्मुरुत्पेतुश्च तथाऽपरे । केचित् किलकिलां चक्रुर्वानरा वनगोचराः॥६५॥ प्रास्फोटयंश्च पुच्छानि सन्निजध्नुः
पदान्यपि । भुजान विक्षिप्य शैलांश्च दुमानन्ये बभञ्जिरे ॥६६॥ सस्यन्दुः॥ ६॥ सरांसीत्यादिसाईश्वोक एकान्वयः । यथायोग्यं च संबन्धः । सरांसि शीतलसलिलतया मध्येनाविशत् । पर्वतान् दुमाकीर्णतया । तिर्यगाविशत् । समान भूमिदेशान् समन्तादाविशद । वनानि फलवत्तया अप आविशत् ॥६॥ समावृत्येत्यर्धम् ॥ ६२ ॥ त इत्यादि । मारुत परंहसः वायुवेगाः । समारोपितविक्रमाः, अभिवृद्धविक्रमा इत्यर्थः । उद्रेकशब्दोऽतिशयवाची । दर्पान दर्पजव्यापारान् ॥६६॥ ६४॥ तान विवृणोतितत्रेत्यादिना । किलकिलेति वानरशब्दानुकरणम् ॥६५॥ प्रास्फोटयन् भूमाववास्फालयन् सन्निजघ्नु, भूमाविति शेषः। भुनानिति । भुजान
आर्य ! एतान् समीक्ष्य प्रीतो भवितुमर्हसीति सौमिबिरबधीदिति सम्बन्धः ॥५६॥५४॥ करामेरिति । अन्तर्दधे अन्तर्धापयत् ॥५८॥५९॥ बहुयोजनमिति क्रिया विशेषणम् । विपरीतषत वैपरीत्यवत बहुयोजनं यथा तथा नदीखोतांसि सस्यन्दुरिति सम्बन्धः॥ १०॥ सरासीत्यादिसार्धमेकं वाक्यम् ॥६१॥ समावृत्येत्या मेकं वाक्यम् ।। ६२ ॥ त इति । असाध्यमपि साहसवशात् साधयिष्याम इति समारोपितविक्रमाः ॥६३-६५॥ प्रास्फोटयन् पुच्छानि भूमावताहयन । विक्षिप्य।
For Private And Personal Use Only