________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू. ॥१६९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेकं वाक्यम् । खे स्वदेशभूते । उद्भूतः उल्बणः वायुः अभ्रवलम् अभ्रजालमिव । युद्धे बलादभिद्रुतम् आभिमुख्येनायान्तं नीलं समीक्ष्य रथेन नीलमेवा भिदुद्रुवे इति योजना || ३५ ॥ ३६ ॥ त इति । रुषिताः पन्नगा इव स्थिताः समाहिताः ऋजवः नीलं विनिर्भिद्य महीं जग्मुः विविशुरित्यर्थः ॥ ३७ ॥ ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः । महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ॥ ३७ ॥ नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः। स तं परमदुर्धर्षमापतन्तं महाकपिः ॥ ३८ ॥ प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३९ ॥ स तेनाभिहतः क्रुद्धो नदन राक्षसपुङ्गवः । ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ ४० ॥ तस्य बाण गणान् घोरान राक्षसस्य महाबलः । अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ॥ ४१ ॥ यथैव गोवृषो वर्षे शारदं शीघ्रमागतम् । एवमेव प्रहस्तस्य शरवर्षे दुरासदम् । निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ४२ ॥ रोषितः शरवर्षेण सालेन महता महान् । प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ ४३ ॥ ततः स चापमुदगृह्य प्रहस्तस्य महाबलः । बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ ४४ ॥ विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ४५ ॥ तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ । स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ४६ ॥ उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ४७ ॥ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ४८ ॥
For Private And Personal Use Only
fi.y.st. म०५८
नील इत्यादिसार्द्धश्लोकः ॥ ३८-४० ॥ तस्येति । अपारयन् अशक्नुवन् ॥ ४१ ॥ यथैवेत्यादिसार्द्धश्लोकः । यथैवेत्यत्र एवकारोऽत्यन्तायोगव्यवच्छे दार्थकः । शारदमित्यनेन शूरपातस्य क्षयित्वं व्यनक्ति ॥ ४२-४५ ॥ तावुभावित्यादिश्लोकत्रयमेकं वाक्यम् । प्रभिन्नौ मतौ । सिंहशार्दूलसदृशाविति ॐ ॥ १५९ ॥ बले साम्यम् । विक्रान्तविजयौ सर्वत्र प्राप्तविजयौ । काङ्क्षमाणौ, अभूतामिति शेषः ॥ ४६-४८ ॥
अभ्रवलामेष युद्धे बलादमिद्रुतम् आभिमुख्येनायान्तं नीलं समीक्ष्य नीलमेवाभिदुद्रुव इति सम्बन्धः ॥ ३५-४० ॥ तस्येति । अपारयन् अशक्नुवन् ॥४१-४८॥