________________
Shri Mahar Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandit
को
तद्वदति शेषः। वेति पक्षान्तरे । अहं तदेव श्रेयो मन्ये त्वमन्यज यदि मन्यसे तदद । तदेवास्माकं हितमित्यर्षः ॥११॥१२॥ मन्त्रसमये मया यथास निर्धारितं तत्तथा प्रवृत्तमित्याह-राजनित्यादिना । कुशलैमन्त्रिभिः विभीषणादिभिः सह नः अस्माभिः इदं वक्ष्यमाणं मन्त्रितपूर्वम् । तर्हि मन्त्रितत्वे तथा किमिति नानुष्ठितम् ? तबाह विवाद इति । परस्परं समवेक्ष्य बहुमतितया आलोच्य । नः अस्माकं विवादश्चापि वृत्तः । येन विभीषणो निरगच्छ
राजन् मन्त्रितपूर्व नः कुशलैः सह मन्त्रिभिः। विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३॥ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । अप्रदाने पुनयुद्धं दृष्टमेतत्तथैव नः ॥ १४॥ सोऽहं दानैश्च मानैश्च सतत पूजितस्त्वया । सान्त्वैश्च विविधैः काले किं न कुयी प्रियं तव ॥ १५॥ न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा। त्वं पश्य मां जुहूषन्तं त्वदर्थ जीवितं युधि ॥१६॥ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । उवाचेदं बलाध्य
क्षान् प्रहस्तः पुरतः स्थितान् ॥१७॥ समानयत मे शीघ्र राक्षसानां महद्वलम् ॥ १८॥ दिति भावः ॥ १३॥ मन्त्रितमर्थमाह-प्रदानेन विति । सीतायाः प्रदानेन तु श्रेयः, अप्रदाने तु युद्धमिति च मम व्यवसितमित्यर्थः । सर्वमरणं युद्ध शब्देनोपचर्यते । यथैव व्यवसितं तथैव नः अस्माभिः दृष्टं च ॥ १४॥ एवं स्वमतमुक्त्वा सम्प्रति वन्मतानुसारेण युद्धमेव करिष्यामीत्याह-सोऽहमित्या दिना । दान भूषणादिप्रदानः। मानः त्वदीनं जीवितमित्यादिप्रियभाषणः। पूजितः उत्कर्षमापादितः।काले आपत्काले। किन कुर्याम्, जीवितत्याग मपि कुर्यामित्यर्थः ॥ १५॥ उक्तमेव विशदयति-न हीति । जुहूषन्तं होतुमिच्छन्तम् । जुहोतेः सन् प्रत्ययः । अनेन जीवितस्य हविष्ट्वं युद्धस्यामि । रूपत्वं च गम्यते । तेन चात्महविःप्रदानस्य महाफलत्वं युद्धसङ्गतिमात्रेण स्वविनाशश्च द्योत्यते । गतानुगतिकास्तु जुहूषन्तं त्यक्तुमिच्छन्तमित्यर्थः, जुहोतेर्दानार्थत्वादित्याहुः ॥ १६-१८॥ श्रेयः, युद्धे सति जयपराजययोरव्यवस्थितत्वेन पाक्षिक जयसदाबादाद्धमेव श्रेय इत्यर्थः । अब मदुतार्थविषये प्रतिलोमानुलोमं वा प्रतिलोम वा अनुलोमं वा, अनयोदितं मन्यसे, तद्वदेति शेषः । यदा प्रतिलोम पतिकलामिति घन्मन्यसे । अनुलोममनुकूलमिति यन्मन्यसे अन्यद्वा एतब्यतिरिक्तम् यद्वेतरन्मन्यसे, तहदेति शेषः। प्रतिलोमेत्यविभक्तिको निर्देशः ॥११-१३॥ मन्त्रसमये यथा निर्धारितं तत्तथैव दृश्यत इत्याद-प्रदानेन स्विति ॥ १४ ॥ त्वन्मतानुसारेण युद्धमेव करिष्यामीत्याशयेनाह- सोऽहमिति ॥ १५॥ जुहूषन्तं त्यमिच्छन्तम् ॥ १६-२२ ॥
॥१६॥
For Private And Personal Use Only