________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तस्य, उपरुद्धस्येत्यर्थः । अत एव वाशब्दश्वार्थे । पीडितस्य च मोक्षं मोक्षोपायम् ॥ ५ ॥ वहेयुरिति शकि लिङ् ॥ ६ ॥ स इति । शीघ्रमादाय परिगृह्य स्वाधीनं कृत्वा । यत्र वनौकसो वर्तन्ते तत्र इतो निर्याहीत्यन्वयः ॥ ७ ॥ चपला धैर्यरहिता ॥ ८ ॥ ९ ॥ अवशः प्रभुत्वरहितः । " वश अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ ६ ॥ स त्वं बलमतः शीघ्रमादाय परिगृह्य च । विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ ७ ॥ निर्याणादेव ते नूनं चपला हरिवाहिनी । नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥ चपला ह्यविनीताश्च चलचित्ताश्च वानराः । न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥ विद्वते च बले तस्मिन् रामः सौमित्रिणा सह । अवशस्ते निरालम्बः प्रहस्त वश मेष्यति ॥ १० ॥ आपत् संशयिता श्रेयो न तु निस्संशयीकृता । प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ ११ ॥ रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥
२०५
Acharya Shri Kailassagarsuri Gyanmandir
मिच्छाप्रभुत्वयोः" इति विश्वः । हे प्रहस्त । ते तव वशमेष्यतीत्यन्वयः ॥ १० ॥ ननु युद्धे सत्यात्महानेरपि सम्भवात्तदकरणमेव श्रेय इत्याशङ्कय तथात्वे शत्रुकृताया हानोर्नश्चितत्वात् युद्धकरणे तस्याः सन्देहात् "यत्रायुद्धे ध्रुवो मृत्युर्युद्धे जीवितसंशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः॥” इत्युक्तरीत्या इदानीं युद्धमेव श्रेय इत्याह- आपदिति । संशयिता वितर्किता । आपत् मृतिः । श्रेयः युद्धे मृतिः श्रेयस्करीत्यर्थः । जयापजययो व्र्व्यवस्थितत्वेन पाक्षिकजयस्यापि सम्भवादिति भावः । पक्षान्तरं प्रतिक्षिपति-न त्विति । निस्संशयीकृता निश्चिता मृतिस्तु युद्धं विना शत्रुभिर्मरणं तु न श्रेयः एतन्मम मतम् । स्वन्मतं तु किमित्याह - प्रतिलोमेति । प्रतिलोमं मदुक्तप्रकारविपरीतप्रकारम् । अनुलोमं वा नोऽस्माकं यद्धितं मन्यसे, उप समीपे निर्विष्टं परसेनानिवेशो यस्य तत्तथोक्तं तस्य, उपरुद्धस्येति यावत् । अत एव वाशब्दचार्थे । पीडितस्य च । मोक्षं मोक्षोपायम् ॥ ६-९ ॥ विद्रुत इति । अवशः वशं प्रभुत्वम् तद्रहितः । " वशमिच्छाप्रभुत्वयोः " इति विश्वः ॥ १०॥ " अवशस्तु निरालम्बः महस्त वशमेष्यति " इत्युक्त्यनन्तरं प्रत्युतराम दानेन युद्धाद्युक्तं मत्वा " यत्रायुद्धे धुवो मृत्युर्युद्धे जीवितसंशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः ॥ " इति नीतिशास्त्रमवलम्ब्याह - आपदिति निस्संशयीकृता युद्धाकरणेऽपि निश्रिता आपतये श्रेयः श्रेयस्करी न भवति किन्तु निस्संशयीकृता आपद मृतिः श्रेयः श्रेयस्करी युद्धे असन्दिग्धा मृतिः
For Private And Personal Use Only