________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
10
टी.यु.का.
३१६४॥
सोऽपीति । प्रत्यभ्यपूजयत भवत्साहाय्येनैव मया जितमित्येवमिति भावः ॥ ३६-३९ ॥ चतुर्थ्यामकम्पनवधः ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥
सोऽपि प्रहृष्टस्तान् सर्वान् हरीन प्रत्यभ्यपूजयत् । हनुमान सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ ३६॥ विनेदुश्च यथाप्राणं हरयो जितकाशिनः। चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ॥ ३७ ॥ स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः। महासुरं भीमममित्रनाशनं यथैव विष्णुर्वलिनं चमूमुखे ॥३८॥ अपूजयन् देवगणास्तदा कपि स्वयं च रामोऽतिवलश्च लक्ष्मणः । तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ ३९॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्पञ्चाशः सर्गः ॥५६॥ अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः। किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥1॥ स तु ध्यात्वा मुहूर्त तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरी परिययौ लङ्कां सर्वान गुल्मानवेक्षितुम् ॥ २ ॥ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । ददर्श नगरी लङ्कां पताकाध्वजमालिनीम् ॥ ३॥ रुद्रां तु नगरी दृष्ट्वा रावणो राक्षसेश्वरः । उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ॥४॥ पुरस्योपनिविष्टस्य सहसा
पीडितस्य वा । नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥५॥ अथ युद्धाय प्रहस्तनिर्याणं सप्तपञ्चाशे-अकम्पनवधमित्यादि ॥ १ ॥ स वित्यादिसायश्लोक एकान्वयः । ततः स रावणः पुरी परिययौ । पूर्वदिवसे | दिवसस्य पूर्वभागे, पूर्वाह्न इत्यर्थः । गुल्मान् सेनाव्यूहान् ॥२॥३॥ काले निदेशाईसमये ॥ ४॥ उप समीपे निविष्टं परसेनानिवेशो यस्य [॥३६-३९॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां षट्पक्षाशः सर्गः ॥५६॥ १॥ पूर्वदिवसे पूर्वाहे ॥२-४ ॥ उपनिविष्टम्य
॥१६॥
For Private And Personal Use Only