________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शरवृष्टिभिः शतदेहविदारणः राक्षसानां भी
चरणैः चरणन्यासैः। दारयत् अदारयत् ॥ २२ ।। पदातितया गच्छन्तीति पदातिमाः तान् ॥ २३-२६ ॥ प्ररूढः प्ररूवृक्षः ॥२७-२९॥ वानरेन्द्रेण
प्रधावन्नूरुवेगेन प्रभऑस्तरसा दुमान् । हनुमान परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ॥ २२ ॥ गजांश्च सगजारोहान सरथान रथिनस्तथा। जघान हनुमान् धीमान राक्षसांश्च पदातिगान् ॥ २३॥ तमन्तकमिव क्रुद्धं समरे प्राण हारिणम् । हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥२४॥ तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् । ददर्शाकम्पनो वीरश्चक्रोध च ननाद च ॥ २५॥ स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः । निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥२६॥ स तदा प्रतिविद्धस्तु बहीभिः शरवृष्टिभिः । हनुमान ददृशे वीरः प्ररूढ इव सानुमान ॥ २७ ॥ विरराज महाकायो महावीर्यो महामनाः । पुष्पिताशोकसङ्काशो विधूम इव पावकः ॥ २८॥ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥२९॥ स वृक्षेण हतस्तेन सक्रोधेन महात्मना । राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥ तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । व्यथिता राक्षसाः सर्वे क्षितिकम्प इव दुमाः ॥ ३० ॥ त्यक्तप्रहरणाः सवें राक्षसास्ते पराजिताः । लङ्कामभिययुसस्ता वानरैस्तैरभिद्रुताः ॥३२॥ ते मुक्तकेशाः सम्भ्रान्ता मनमानाः पराजिताः। स्रवच्छूमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥३३॥ अन्योन्यं प्रममन्थुस्ते विविशुनगरं भयात् । पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥ तेषु लङ्कां प्रविष्टेषु राक्षसेषु
महाबलाः । समत्य हरयः सवं हनुमन्तमपूजयन् ॥ ३५ ॥ कळ । तेन वृक्षेण हत इत्यन्वयः ॥ ३० ॥ क्षितिकम्पे भूकम्पे ॥ ३१-३५ ॥ चरणैः चरणन्यासः ॥ २२-२६ ॥ स इति । प्रहः प्रदक्षः ।। २७-२९ ॥ स बुक्षेणेति । चतुर्थ्यामकम्पनवधः ॥३०-३५॥
६८स्रब
For Private And Personal Use Only