________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सा.रा.भू.
टी.यु.. स०५६
१६३॥
| तानिति । उपतस्थे अकम्पनसमीपमाजगाम ॥८-११॥ अकम्पनवधार्थाय अकम्पनवधरूपप्रयोजनाय ॥१२॥१३॥ तस्य हनुमतः॥१४॥ अप्रहरणम्
तान मृत्युवशमापन्नानकम्पनवशं गतान । समीक्ष्य हनुमान ज्ञातीनुपतस्थे महाबलः ॥ ८॥ तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । समेत्य समरे वीराः संहृष्टाः पर्यवारयन ॥ ९॥ अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः। बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ १०॥ अकम्पनस्तु शैलाभ हनूमन्तमवस्थितम् । महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥११॥ अचिन्तयित्वा बाणौघान शरीरे पतितान शितान् । अकम्पनवधार्थाय मनो दधे महाबलः ॥ १२॥ स प्रसह्य महातेजा हनूमान मारुतात्मजः। अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३॥ तस्याभि नर्दमानस्य दीप्यमानस्य तेजसा । बभूव रूपं दुर्धर्ष दीप्तस्येव विभावसोः ॥ १४॥ आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः। शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥ तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः । स विनय महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । पुरा हि नमुचिं सङ्ख्ये वजेणेव पुरन्दरः ॥ १७॥ अकम्पनस्तु तदृष्ट्वा गिरिशृङ्गं समुद्यतम् । दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥१८॥ तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् । विशीर्ण पतितं दृष्ट्वा हनुमान कोधमूच्छितः ॥१९॥ सोऽश्वकर्ण समासाद्य रोषदान्वितो हरिः । तूर्णमुत्पाटयामास यहागिरिमिवोच्छ्रितम् ॥ २० ॥ तं गृहीत्वा महास्कन्धं सोऽश्वकर्ण महाद्युतिः । प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥२१॥ अनायुधम् ॥ १५ ॥ महानादं विनय महानादं कृत्वेत्यर्थः ॥ १६ ॥ तत इति । तत्र सः शैलेनेत्यध्याहार्यम् । स हनुमान् अकम्पनं पुरन्दरो नमुर्चि यथा तथा शैलेन वज्रेणेवाभिदुद्राव ॥ १७ ॥ १८॥ क्रोधमूञ्छितः, अभूदिति शेपः ॥ १९-२१॥ आत्मानमिति । अपहरणम् अनायुधम् ॥ १५-१८ ॥ तत्पर्वताप्रमिति । क्रोध मद्वितः, अभूदिति शेषः ।। १९-२१ ॥
INसनाच॥१६॥
For Private And Personal Use Only