________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
१६२॥
आभिमुख्येन गर्जनं कुर्वताम् ॥ १७॥ रजति । अरुणवर्णेन रक्तिमा आभातीत्यरुणवर्णाभम् ॥ १८॥ अन्योन्यमिति । कौशेयोदूतपाण्डुना, उदूत टी.पु.का. कौशेयपाण्डुना । आहिताग्न्यादित्वात् परनिपातः । रजसो रक्तत्वपाण्डुत्वे भूभेदादिति ज्ञेयम् । संवृतानि छन्नानि भूतानि वस्तूनि न ददृशुः, वानरास.५५ रजश्चारुणवर्णाभं सुभीममभवदृशम् । उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १८॥ अन्योन्यं रजसा तेन कौशे योद्धूतपाण्डुना। संवृतानि च भूतानि ददृशुर्न रणाजिरे ॥ १९॥ न ध्वजा न पताका वा वर्म वा तुरगोऽपि वा।
आयुधं स्यन्दनं वाऽपि ददृशे तेन रेणुना ॥२०॥ शब्दश्च सुमहास्तेषां नर्दतामभिधावताम् । श्रूयते तुमुले युद्धे नरूपाणि चकाशिरे ॥२१॥ हरीनेव सुसंकृद्धा हरयो जघ्नुराहवे। राक्षसाश्चापि रक्षांसि निजम्नुरितमिरे तदा ॥२२॥ परांश्चैव विनिघ्नन्तःस्वांश्च वानरराक्षसाःरुधिरार्दा तदा चाहीं पङ्कानुलेपनाम् ॥२३॥ ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः। शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ॥ २४ ॥ द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः । हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ॥२५॥ बाहुभिः परिघाकारैर्युद्धयन्तः पर्वतोपमाः। हरयो भीमकर्माणो राक्षसान
जघ्नुराहवे ॥ २६ ॥ राक्षसास्त्वपि संक्रुद्धाः प्रासतोमरपाणयः। कपीन्निजन्निरे तत्र शस्त्रैः परमदारुणैः ॥२७॥ राक्षसाश्चेति शेषः ॥ १९॥ उक्तं विवृणोति-न ध्वजा इति । वादिष्वपि नभनुवर्तनीयः ॥२०॥ परस्परादर्शनादिजन्यं शब्दान्तरमाह-शब्दश्चेति । रूपाणि पदार्थान्तराणि ॥२१॥ अदर्शनफलमाह-हरीनिति ॥ २२॥ परानिति । प्रथम रक्ताम् अथ चरणक्षोदेन पकिलामित्यर्थः । पकानु
लेपना पङ्कानुलिप्ताम् । कर्मणि ल्युट् ॥ २३ ॥ तत इति । शरीरशवसङ्कीर्णा शवभूतशरीरसङ्कीर्णा ॥२४॥ द्रुमेति । द्रुमशैला वानरीयाः । शक्त्याल पदयो राक्षसीयाः ॥२५॥ बाहुभिरिति । बाहुभिः परिवाकाररित्यस्योत्तराधः-हरयो भीमकर्माणो राक्षसान जघ्नुराहवे इति ॥२६॥ राक्षसास्त्वपीति ||१६२॥
अरुणवर्णाभं धूम्रवर्णस्य वस्तुन आभा यस्मिन् तत् । अरुणशब्दो धूम्रपर्यायोऽपि ॥ १८ ॥ कौशेयोधूतपाण्डुना धौतकोशेयपाण्डुनेत्यर्थः। भूनानि कपिर क्षो लक्षणप्राणिनः ॥ १९-२७ ॥
For Private And Personal Use Only