________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
| मेघाभः मेघवत् स्थूलः । मेघस्वनमहास्वनः । " सप्तम्युपमानपूर्वपदस्य " इत्यादिना उत्तरपदलोपस्थ वैकल्पिकत्वे प्रथमस्वनपदश्रवणम् ॥ ७ ॥ प्रसङ्गादाह-नहीति । हि यस्मात् महामृधे महायुद्धेऽपि कम्पयितुं न शक्यते अतो हेतोरकम्पनः अकम्पनशब्दवाच्यः । तेषां रक्षसाम् मध्ये रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः । मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः । राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ॥ ७ ॥ न हि कम्पयितुं शक्यः सुरैरूपि महामृधे । अकम्पनस्ततस्तेषामादित्य इव तेजसा ॥८॥ तस्य निर्धावमानस्य संरब्धस्य युयुत्सया । अकस्मादैन्यमागच्छद्धयानां रथवाहिनाम् ॥ ९ ॥ व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः । विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ॥ १० ॥ अभवत् सुदिने चापि दुर्दिनं रूक्ष मारुतम् । ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ॥ ११ ॥ स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः । तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ १२ ॥ तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः । बभूव सुमहा नादः क्षोभयन्निव सागरम् ॥ १३ ॥ तेन शब्देन वित्रस्ता वानराणां महाचमूः । द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ॥ १४ ॥ तेषां युद्धं महारौद्रं सअज्ञे हरिरक्षसाम् । रामरावणयोरर्थे समभित्यक्तजीविनाम् ॥ १५ ॥ सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः । हरयो राक्षसाश्चैव परस्परजिघांसवः ॥ १६ ॥ तेषां विनर्दतां शब्दः संयुगेऽतितर स्विनाम् । शुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ॥ १७ ॥
तेजसा आदित्य इव स्थित इत्यर्थः ॥ ८ ॥ ९ ॥ रामानु० - हयानां रथवाहिनामिति पाठः ॥ ९ ॥ व्यस्फुरदित्यादि । चिवर्णः विपरीतवर्णः । दुर्दिनं मेघच्छन्न दिनम् । “मेषच्छन्नेऽह्नि दुर्दिनम् " इत्यमरः ||१०||११|| सिंहोपचितस्कन्धः सिंहस्येयोन्नतस्कन्धवान् ॥१२- १४॥ तेषामिति । समभित्यक्तजीविनां तृणीकृतशरीराणामित्यर्थः ॥ १५ ॥ सर्व इति । परस्परजिघांसवः आसन्निति शेषः ॥ १६ ॥ तेषामिति । विनर्दतां सिंहनादं कुर्वताम् । अभिगर्जताम् रथमिति । परिमाणतो मेघतुल्यः । मेघवर्णः मेघवन्नीलवर्णः । मेघाभः मेघसमान देहप्रमाणः । मेघस्य स्वन इव महान् स्वनो यस्य सः तथा । निर्याति याति ७ स्म ॥ ७ ॥ ८ ॥ रथवहनकर्तृणां ह्यानाम् अकस्मानिर्हेतुकमेव दैन्यमागच्छत, मन इति शेषः ।। ९ ।। १० ।। अभवदिति । सुदिने चापि मेघावरणायोग्यदिवसेऽपि दुर्दिनं मेघावरणमभवत् ॥११- १४॥ समभित्यक्तदेहिनाम् इति पाठः । समभित्यक्ता देहिनः आत्मानो यैस्ते तेषाम्, आत्मरक्षानिरपेक्षाणाम् इति यावत् ॥१५- १७॥
For Private And Personal Use Only