________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
स जग्राहार्षभं चमेति पठित्वा सः वज्रदंष्ट्रः खड्ग जग्राह अङ्गन्दो वृक्षं जग्राहेति व्याख्याय, खड्नेनास्य महच्छिर इत्यत्र वृक्षे प्रतिहतेऽङ्गन्दोऽपि चर्मासी/ टी.यु.कां. जग्राहेति अनेनावगम्यत इत्यपि वर्णयन्ति ॥ ३५॥ ३६॥ रामानु०-खङ्गेनास्य वज्रदंष्ट्रस्य शिरो जघानेत्यनेन वृक्षे प्रतिहतेऽङ्गदोऽपि चर्मासी जग्राहेत्यवगम्यते ॥ ३५ ॥
वजदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः । त्रस्ताः प्रत्यपतन लङ्का वध्यमानाः प्लवङ्गमैः। विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः ॥ ३७॥ निहत्य तं वज्रधरप्रभावः स वालिमूनुः कपिसैन्यमध्ये। जगाम हर्ष महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमयुद्धकाण्डे चतुष्पश्चाशः सर्गः ॥५४॥ वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः। बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥१॥ शीघ्र निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः। अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥२॥ एष शास्ता च गोप्ता च नेता च युधि संमतः। भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥३॥ एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् । वानरांश्चा परान घोरान हनिष्यति परन्तपः॥४॥ परिगृह्य स तामाज्ञां रावणस्य महाबलः। बलं सन्त्वरयामास तदा लघु
पराक्रमः॥५॥ ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः। निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ॥६॥ विषण्णवदनाः शुष्कवदनाः। तृतीयायां वज्रदंष्ट्रवधः ॥३७॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्ड , व्याख्याने चतुष्पञ्चाशः सर्गः ॥५४॥ अथाकम्पनयुदं पञ्चपञ्चाशे-बज्रदंष्टमित्यादि । बलाध्यक्ष प्रहस्तम् ॥१॥२॥ एष इति । शास्ता परसैन्य। निग्राहकः । गोप्ता स्वबलरक्षकः । नेता नायकः, सेनापतिरित्यर्थः । संमतः प्रसिद्धः ॥३॥४॥ परिगृह्येति । बलचोदनेन स्वचोदनमर्थसिद्धं मत्वेत्यर्थः ॥५॥ तत इति । निष्पेतुः पुरात् निर्ययुः ॥६॥ महितः पूजितः ॥ तृतीयायां वजदंष्ट्रवधः ॥३८॥ इति श्रीमहेश्वरतार्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां चतुष्पनाशः सर्गः ॥५४॥ बजदंष्ट्रमिति । बलाध्यक्ष प्रहस्तम् ॥ १-६॥
AG॥१६॥
For Private And Personal Use Only