________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
"साऽङ्गदेन गदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि” इत्यर्धे योज्यम् ||२७|| अवर्तत अवर्त्तयत् ॥ २८ ॥ २९ ॥ ततः परमतेजस्वीत्यादि श्लोकद्वयमेकान्वयम् । वृक्षोत्पाटनार्षभ चर्मखङ्गग्रहणादिकमङ्गदस्योच्यमानमितरस्याप्युपलक्षणम् । विचित्रांश्चेरतुर्मार्गानिति वक्ष्यमाणयुद्धस्य उभयोरविशेषेण वर्णनात् । स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् । जघान परमक्रुद्धो वक्षोदेशे निशाचरः । गर्दा त्यक्त्वा ततस्तत्र मुष्टियुद्ध मवर्तत ॥ २८ ॥ अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ । रुधिरोद्वारिणौ तौ तु प्रहारैर्जनितश्रमौ । बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ २९ ॥ ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः । उत्पाटय वृक्षं स्थितवान् बहुपुष्प फलाञ्चितम् ॥ ३० ॥ जग्राह चार्षभं चर्म खङ्गं च विपुलं शुभम् । किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ॥ ३१ ॥ [ वज्रदंष्ट्रोऽथ जग्राह सोऽङ्गदोऽप्यसिचर्मणी ।] विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ । जन्नतुश्व तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ॥ ३२ ॥ व्रणैः सात्रैरशोभेतां पुष्पिताविव किंशुकौ । युद्धयमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ ३३ ॥ निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः । उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ ३४ ॥ निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः । जघान वज्रदंष्ट्रस्य वालिसनुर्महाबलः ॥ ३५ ॥ रुधिरोक्षित गात्रस्य बभूव पतितं द्विधा । सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ॥ ३६ ॥
अङ्गदेन वृक्षे गृहीते राक्षसोऽपि वृक्षं जग्राह । अङ्गदेन खङ्गादौ गृहीते राक्षसोऽपि खगादिकं जग्राहेति भावः । आर्षभं धर्म ऋषभचर्मपिनद्धं फलकम् चर्मणा खड्गकोशेन ॥ ३० ॥ ३१ ॥ रामानुस जग्राहार्षभं चर्मेति पाठः । सः वज्रदंष्ट्रः ॥ ३१ ॥ विचित्रानिति । मार्गान् पूर्वोक्तमण्डलादिमार्गान् । निर्दयं जन्नतुरित्यन्वयः ॥ ३२ ॥ व्रणैरिति । सात्रैः सरुधिरैः । " अस्रमश्रुणि शोणिते " इत्यमरः । अवमीं गतौ, अभूतामिति शेषः ॥ ३३ ॥ निमेषेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण ॥ ३४ ॥ निर्मलेनेति । सुधौतेन शाणोल्लिखितेन अत एव निर्मलेन । अस्य वज्रदंष्ट्रस्येत्यन्वयः । केचित्तस जग्राहार्षभं चर्म एतदङ्गदस्य कथनमितरस्याप्युपलक्षणम् । विचित्रांश्चेरतुर्भार्गानिति वक्ष्यमाणयुद्धे ह्युभयोरविशेषवर्णनात् ॥ ३१-३७ ॥
For Private And Personal Use Only