________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.
टी.यु.कार स०५४
भयवित्रस्तान भयहेतुभ्यो वित्रस्तान् ॥ १३ ॥ १४ ॥ बिभेदेति । सप्ताष्टौ नव पञ्च चेति, एकैकप्रयोगेणेति शेषः ॥१५-१७॥ रामानु:-तत। इति । उदीअन्तम् उदीक्षमाणम् ॥ ५७ ॥ वज्रदंष्ट्र इति । हरिमत्तगजी सिंहमत्तगजो ॥ १८-२३ ॥ सा वज्रदंष्ट्धृता गदा आक्षिप्ता अपहृता ॥ २४ ॥
राक्षसान भयवित्रस्तान हुन्यमानान् प्लवङ्गमैः। दृष्ट्वा स रोषताम्राक्षो वजदंष्ट्रः प्रतापवान् ॥ १३ ॥ प्रविवेश धनुष्पाणिस्वासयन हरिवाहिनीम् । शरविदारयामास कङ्कपत्रैरजिह्मगैः ॥ १४ ॥ विभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च । विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान ॥ १५॥ त्रस्ताः सर्वे हरिगणाः शरैःसंकृत्तकन्धराः। अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ॥ १६॥ ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा। क्रोधेन वजदंष्ट्र तमुदी क्षन्तमुदॆक्षत ॥ १७॥ वज्रदंष्ट्रोऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ। चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ १८ ॥ ततः शरसहस्रेण वालिपुत्रं महाबलः । जघान मर्मदेशेषु मातङ्गमिव तोमरैः ॥ १९ ॥ रुधिरोक्षितसर्वाङ्गो वालिमृनु महाबलः। चिक्षेप वजदंष्ट्राय वृक्ष भीमपराक्रमः ॥२०॥ दृवाऽऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः। चिच्छेद बहुधा सोऽपि निकृत्तः पतितो भुवि ॥२१॥ तं दृष्ट्वा वृजदंष्ट्रस्य विक्रमप्लवगर्षभः। प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ २२ ॥ समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् । गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ॥ २३॥ साऽङ्गदेन गदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि ॥२४॥ मुचक्रकूबरं साश्वं प्रममाथ रथं तदा ॥२५॥ ततोऽन्यं गिरिमाक्षिप्य विपुलं दुमभूषितम् । वजदंष्ट्रस्य शिरसि पातयामास सोऽङ्गदः ॥२६॥ अभवच्छोणितोद्दारी वजदंष्ट्रःस मूच्छितः।
मुहूर्तमभवन्मूढो गदामालिङ्गच निःश्वसन् ॥ २७ ॥ सः अङ्गदक्षिप्तशैलः ॥ २५ ॥२६॥ शोणिताहारी रक्तोद्गारी। गदाम् अन्याम् । यद्वा "गपान परमाद्धो वक्षोदेशे निशाचरः" इत्यस्यानन्तरं भनमभूत ॥११-१४ ॥ सप्ताष्ट नव पश्न विभेद, एकेकेन शरेणेति शेषः ॥ १५ ॥ संप्रधावन्ति धावन्ति स्म ॥ १६ ॥ १७ ॥ हरिमत्तगजाविव हरिरिह शार्दल सिंहेन गजस्य युद्धासंभवात् । (स्वमेऽपि सिंहदर्शनेन गजाना मरणमिति कतकः)॥ १८-३०॥
॥१६॥
For Private And Personal Use Only