________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वानराणामिति निर्धारणे षष्ठी ॥ ४ ॥ तत्र कपिमुख्येष्वित्यन्वयः । आयोधने युद्धे ॥ ५ ॥ ६ ॥ तद्राक्षसगणानां चेति । ते च राक्षसगणाश्च तद्राक्षसगणाः तेषाम् । तच्छब्देन वानरा उच्यन्ते । युद्धयमानानां सुयुद्धं समवर्ततेत्यनेन उत्तरोत्तरयुद्धाधिक्यमुच्यते ॥ ७ ॥ पादैश्व बाहुभिरित्युपलक्षणे तृतीया । राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूराः प्रायुद्धयन्त तदा रणे ॥ ३ ॥ वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः । आयुद्धयन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥ तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ॥ ५ ॥ वानराश्चापि रक्षस्सु गिरीन वृक्षान् महाशिलाः । प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ॥ ६ ॥ शूराणां युद्धयमानानां समरेष्वनिवर्तिनाम् । तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥ प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः । शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥ हरयो राक्षसाचैव शेरते गां समाश्रिताः । कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ॥ ९ ॥ कबन्धानि समुत्पेतु भीरूणां भीषणानि वै ॥ १० ॥ भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले । वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ॥ ११ ॥ ततो वानरसैन्येन हन्यमानं निशाचरम् । प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ॥ १२ ॥
अर्पितदेहाः आरोपितदेहाः । गां भूमिम् । कङ्कः अवटः स च इयेनविशेषः । गृध्रः दूरदर्शी । वलः श्येनविशेषः काकश्च तैराढ्याः व्याप्ताः ॥ ८॥९॥ कबन्धानीत्यर्धम् ॥ १० ॥ पुनः केषांचित्पतनमाह-भुजेति । भुजपाणिशिरस्सु छिन्नाः । छिन्नकायाः छिन्नमध्यकायाः ॥ ११ ॥ तत इति । निशाचरं निशाचरसम्बन्धि । अण वृद्धयभाव आर्षः । यद्वा निशायां चरतीति योगमात्रविवक्षा ॥ १२ ॥
वानराणामिति निर्धारणे षष्ठी ॥ ४ ॥ तत्र कपिमुख्येषु । तस्मिन्नायोधने युद्धे ॥ ५-७ ॥ तदिति । पादैश्च बाहुभिरित्येतदुपलक्षणे तृतीया ॥ ८ ॥ हरय इति । वलः काकः श्येनविशेषो वा, कङ्कगृभषलैराढचा व्याप्ता इत्यर्थः ॥ ९ ॥ १० ॥ निशाचरं वृद्धभाव आर्षः । यद्वा निशि चरतीति निशाचरम् । प्रामण्यत
For Private And Personal Use Only