SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kalassagarsun Gyarmandir टी.यु.का. वा.रा.म. बलवन्त इति । अस्त्रविदुषः अवविद्वांसः । प्रथमार्थे द्वितीया ॥२६ ॥ निनत इत्यादिशोकद्वयमेकान्वयम् । संवर्तके प्रलयकाले । तान् राक्षस गणानित्यत्र निजघानेति विपरिणामः ॥ २७-३० ॥ हारेति । शारदीव यथा निशेत्यत्र इवशब्दयथाशब्दावेकार्थको, अपिचेतिवत् । इवशब्दः पादपूरण इत्येके ॥ ३१ ॥ ३२ ॥ इति श्रीमोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥ वजदंष्ट्रो भृशं बाणै रणे वित्रासयन हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥२५॥ बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे। जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः॥ २६ ॥ निघ्नतो राक्षसान दृष्ट्वा सर्वान वालिसुतो रणे। क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥२७॥ तान राक्षसगणान् सर्वान वृक्षमुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव । चकार कदनं घोरं शकतुल्यपराक्रमः ॥२८॥ अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः । विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ॥ २९ ॥ रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् । रुधिरेण च सञ्छना भूमिर्भयकरी तदा ॥३०॥ हारकेयूरवस्त्रैश्च शस्त्रैश्च समलंकृता । भूमि ति रणे तत्र शारदीव यथा निशा ॥ ३१॥ अङ्गदस्य च वेगेन तद्राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ३२॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ बलस्य च निघातेन अङ्गदस्य जयेन च । राक्षसः क्रोधमाविष्टो वचदंष्ट्रो महाबलः ॥ १॥ स विस्फाये धनुोरं शकाशनिसमस्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः॥२॥ अथ वज्रदंष्ट्रवधश्चतुष्पञ्चाशे-बलस्य चेत्यादिशोकद्वयमेकान्वयम् ॥ १-३॥ अस्त्रविदुषः अस्त्रविद्वांसः ॥ २६ ॥ संवर्तके प्रलयकाले ॥ २७ ॥ तान राक्षसगणान, निजघानेति शेषः ॥ २८ ॥ २९॥ भयकरी भयङ्कारी, अभूदिति शेषः । मुमभाव आर्षः ॥३०-३२॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥५३॥ (पवनेनाम्बुदो पियवेत्युत्तरं सर्गच्छेदः कचित, सोऽयुक्तः । वृत्तभेदप्रकरणभेदाद्यभावादिति कतकः ।) ॥ १-३॥ ।१५९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy