SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्यान्तीत्यनुषङ्गः ॥ ११-१३ ॥ विघनात् घनशून्यात् ॥ १४ ॥ १५ ॥ औत्पातिकान् अशुभसूचकान् ॥ १६ ॥ पूरयन् अपूरयं श्वेत्यर्थः । केचित्त निस्सृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत ॥ १३ ॥ आकाशाद्विघनात्तीवा उल्काश्चाभ्यपतंस्तदा । वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ १४ ॥ व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलन भयमोहिताः ॥ १५ ॥ एतानोत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः । धैर्य मालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥ १६ ॥ तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदुः सुमहा नादान पूरयंश्च दिशो दश ॥ १७ ॥ ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह । घोराणां भीमरूपाणामन्योन्यवध कांक्षिणाम् ॥ १८ ॥ निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः । रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ॥१९॥ केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ॥ २० ॥ द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः । श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥ २१ ॥ रथनेमिस्वनस्तत्र धनुषश्चापि निस्वनः । शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥ २२॥ केचिदत्राणि संसृज्य बाहुयुद्धमकुर्वत ॥ २३ ॥ तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि । जानुभिश्च हताः केचिद भिन्नदेहाश्च राक्षसाः । शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४ ॥ पूरयन् पूरयन्त इत्यर्थः, वचनव्यत्यय आर्ष इत्याहुः ॥ १७ ॥ तत इति । तुमुलं रणसङ्कुलम् । " तुमुलं रणसङ्कले " इत्यमरः ॥ १८-२२ ॥ केचि दिति । अस्त्राणि संसृज्य सर्वाण्यस्त्राणि प्रयुज्य । तदनन्तरमनाभावात् बाहुयुद्धमकुर्वतेत्यर्थः ॥ २३-२५ ॥ निस्सृताः, राक्षसा इति शेषः ॥ १३ ॥ आकाशादिति । विधनात निघात ॥ १४ ॥ १५ ॥ औस्पातिकान अशुभसूचकान् ॥ १६ ॥ जितकाशिन: जितेन जयेन काशन्ते प्रकाशन्ते इति तथा । नादयन नादयन्तः । वचनव्यत्यय आर्षः ॥ १७ ॥ तुमुलं रणसङ्कटम् । "तुमुलं रणसङ्कटे " इति विश्वः ॥ १८-२० ।। हृदयभेदनः भयङ्कर इत्यर्थः ।। २१ ।। २२ ।। अखाणि संसृज्य सर्वाण्यप्यखाणि प्रयुज्य तदनन्तरमखाभावाद्वाहुयुद्धमकुर्वतेत्यर्थः ।। २३-२५ ।। * For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy