________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
बा.रा.भ. ॥१५॥
अथ वज्रदंष्टयुद्धं त्रिपञ्चाशे-धूम्राक्षमित्यादि । आविष्टः, अभूदिति शेषः ॥१॥२॥ गच्छ त्वं वीर नियाहीति इतो गच्छ पुरान्निर्याहीत्यर्थः॥३॥ टी.यु.का. तयेत्युक्त्वेति । बहुभिः, बलाध्यक्षेरिति शेषः॥४॥ररित्यस्य संयुक्त इत्यनेनान्वयः । समलंकृतः चन्दनकुसुमादिभिरल कृतः । तनुत्राणि कवच .५३
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताऽऽविष्टो निश्वसनुरगो यथा ॥१॥ दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः । अब्रवीद्राक्षसं शूरं वज्रदंष्ट्र महाबलम् ॥२॥ गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः। जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥३॥ तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः । निर्जगाम बले सार्ध बहुभिः परिवारितः॥४॥ नागैरश्वैः खरैरुष्ट्रः संयुक्तः सुसमाहितः। पताकाध्वजचित्रैश्च स्थैश्च समलंकृतः ॥ ५॥ ततो विचित्रकेयूरमुकुटैश्च विभूषितः । तनुत्राणि च संरुद्धय सधनुर्निर्ययो द्रुतम् ॥६॥ पताकालंकृतं दीप्तं तप्तकाञ्चन भूषणम् । रथं प्रदक्षिणं कृत्वा समारोहच्वमूपतिः ॥ ७॥ यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि । भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ॥ ८॥ खङ्गैश्चकैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च नियन्ति विविधाः शस्त्र पाणयः । विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः॥९॥ गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः । ते युद्ध कुशलै रूढास्तोमराङ्कशपाणिभिः॥१०॥ अन्ये लक्षणसंयुक्ताः शूरा रूढा महाबलाः॥११॥ तद्राक्षसबलं घोरं विप्रस्थितमशोभत । प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२॥ तलबकण्ठत्रशिरस्त्राणानि । संरुद्धच संबध्य, धृत्वेत्यर्थः ॥५-७॥ यष्टिभिरित्यादिसायश्लोकद्वयम् ॥ ८॥९॥ गजा इति । अत्र निर्यान्तीत्यनुपज्यते ।। गजानेव विशिनष्टि-ते युद्धेत्यादिना । तोमराङ्कशपाणिभिः यन्तृभिः । रूढाः आरूढा इत्यर्थः ॥१०॥ अन्ये लक्षणसंयुक्ता इति । अत्रापि गजाः ॥१५८०
॥२॥ गच्छ निर्याहि इत्याभ्यां सर्वथा गन्तव्यमिति बोध्यते ॥३॥ बहुभिः, बलाध्यक्षैरिति शेषः ॥४॥५॥ तनुवाणि संवृत्य आमुच्य ॥६-९॥ गजा इत्यादिसाश्लोक एक वाक्यम् । तोमराशपाणिभिः रूढाः आम्दाः ये युद्धकुशलाः लक्षणसंयुक्ताः अन्ये ये गजाते गजाः, निन्तिीति शेषः। १०॥ ११ ॥ विप्रस्थितं विशेषेण कृतप्रस्थानम् । सविद्युतः नीलस्य रक्षोबलस्य स्वर्णभूषणबहुलत्वात्सविद्युन्मेधोपमेयत्वम् ॥ १२ ॥
For Private And Personal Use Only