________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
सेति । कूबरः युगन्धरः। “कूबरस्तु युगन्धरः" इत्यमरः ॥२९-३२ ॥ अभिवत् अभ्यद्रवत् । आगमशासनस्यानित्यत्वादडभावः ॥ ३३ बहुकण्टका बहुकीलाम् ॥ ३४ ॥ ताडितः, आसीदिति शेषः ॥ ३५ ॥ ३६ ॥ विह्वलितानि विवशीकृतानि ॥ ३७॥३८॥ वहन्तीति वहाःक्षतजस्य
सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ २९ ॥ स भङ्क्वा तु रथं तस्य हनुमान मारुतात्मजः। रक्षसां कदनं चक्रे सस्कन्धविटपैर्दुमैः॥ ३० ॥ विभिन्नशिरसो भूत्वा राक्षसाः शोणि तोक्षिताः । दुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ॥३१॥ विद्राव्य रासक्षं सैन्यं हनुमान मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुवे ॥ ३२ ॥ तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनुमन्त मभिद्रवत् ॥३३॥ ततः क्रुद्धस्तु वेगेन गदातांबहुकण्टकाम् । पातयामास धूम्राक्षो मस्तके तु हनूमतः॥ ३४॥ ताडितः स तया तत्र गदया भीमरूपया॥ ३५॥ स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् । धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ॥ ३६॥ स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः। पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥३७॥ धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः। त्रस्ताः प्रविविशुर्लङ्का वध्यमानाः प्लवङ्गमैः ॥ ३८॥ स तु पवनसुतो निहत्य शत्रु क्षतजवहाः सरितश्च सन्निकीर्य। रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च
पूज्यमानः ॥३९॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ वहाःक्षतजवहाः सन्निकार्य उत्सायेत्यर्थः। द्वितीयायां धूम्राक्षवधः ॥३९॥ इति श्रीगो श्रीरामा० रत्न युद्धकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ १२ ॥ शसा शिला तस्य चक्राविसहितं रथं प्रमध्य भाषि निपपात । कूवरः पुगन्धरः। अवप्लुनिकाले रथे त्यक्तझरासनसहितम् ॥ २९ ॥ रक्षसा कदनं चक्के स्वसेना
रक्षणार्थमिति भावः। स्कन्धः स्थूल शाखा । विटपः सूक्ष्मशाखा ॥३०-३२॥तमिति । अभिद्रवद अभ्यद्रवत ॥३३-३८ ॥ क्षनजस्य बहाः क्षतजवहाः । द्वितीयायो धूम्राक्षवधः । धूम्राक्षवधो भाद्रशुकद्वितीयायामित्याहुः ॥ ३९ ॥ इति श्रीमहे श्रीरामायणतत्व युद्धकाण्डव्याख्यार्थी द्विपञ्चाशः सर्गः ॥५२॥ स-रिपुवधजनितश्रमः वधश्च जनितमश्च तो, बिपूर्ण वध जनितश्रमी येन स तथा । स्थितानां वधः । विद्युताना च बम इति विवेकः ॥ ३९ ॥
For Private And Personal Use Only