________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१५७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रासैरित्यादिचतुःश्लोकी । विह्वलन्तः विवशाः । गतासवः, अभवन्निति शेषः । आन्त्रैर्विनिःसृताः विनिःसृतान्त्रा इत्यर्थः ॥ १९-२३ ॥ धनुरिति । तन्त्री वीणा । आर्षो ह्रस्वः । तया मधुरं रम्यम् । हिक्का विरम्य विरम्य कण्ठात् पवनोद्गमः । मन्दस्तनितम् अशक्त्या मन्दभाषणं तदेव सङ्गीतं प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः । मुद्गरैराहताः केचित् पतिता धरणीतले ॥ १९ ॥ परिधैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः। पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ॥ २० ॥ केचिद्विनिहताः शूलै रुधिरार्द्रा वनौ कसः । केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ॥ २१ ॥ विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः । विदारिता त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ॥ २२ ॥ तत्सुभीमं महायुद्धं हरिराक्षस सङ्कलम् । प्रबभौ शब्दबहुलं शिलापादप सङ्कलम् ॥ २३ ॥ धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् । मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ॥ २४ ॥ धूम्राक्षस्तु धनुष्पाणिर्वानरान रणमूर्धनि । हसन विद्रावयामास दिशस्तु शरवृष्टिभिः ॥ २५ ॥ धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः । अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ २६ ॥ क्रोधाद्विगुणताम्राक्षः पितृ तुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २७॥ आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २८ ॥
सम्यग्गानं यस्मिन् तत् तथोक्तम् । युद्धगान्धर्वे युद्धसङ्गीतम् । सङ्गीतं नृत्तगीतवाद्यम् ॥ २४ ॥ धूम्राक्ष इति । दिशः दिशः प्रति ॥ २५ ॥ धूम्राक्षेणेति । व्यथितं दुःखितम् । दृश्य दृष्ट्वा । मारुतिः हनुमान् ॥ २६ ॥ कोधादिति । पिता वायुः ॥ २७ ॥ २८ ॥ विहलन्तः विवशाः ॥ २० ॥ २१ ॥ आन्नैर्विनिस्सृताः विनिस्सृतान्वा इत्यर्थः ॥ २२ ॥ २३ ॥ युद्धगान्धर्व युद्धसङ्गीतम् ॥ २४-२८ ॥
स० [धनुर्ज्या धनुर्गुणः सैव तन्त्रि तन्त्री वीणा | संज्ञात्वात् "यायोः संज्ञा-" इति स्वः हिका देषा तद्रूपतालयुक्तमिति नागोजिमट्टः हिका ऊर्ध्ववातप्रवर्तितशब्दविशेषः । “सारिका हिका" इति अमर व्याख्यायां "हिक अव्यक्ते शब्द" "गुरोक्ष" इत्यकारप्रत्ययः । ऊर्ध्ववातप्रयुक्तशब्दविशेष इत्युक्तेः मन्दस्तनितसंगीत मन्दाः गजविशेषाः । तत्स्तनितरूप संगीतम् " मन्दः खरगजजातिप्रभेदयोः" इति विश्वः ॥ २४ ॥
For Private And Personal Use Only
टी.पु.की.
स० ५२
॥ १५७ ॥