________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नामानि स्वनामानि ॥ ८-११॥ वनोकसां पर्वताः वानरप्रेरितपर्वताः । तैमथितैः गजेन्द्रः। सारोहः साधिष्ठातृभिः । वसुधातलं कीणमभूत् ।। 0॥१२॥ १३॥ भीमविकान्तैः भीमविक्रमैः । वेगितेः सनातवेगैः । वानरैः कर्तृभिः । करजः नखः करणैः । आक्रम्याक्रम्य मुखेषु विनिकर्तिताः
ते भीमवेगा हरयो नर्दमानास्ततस्ततः । ममन्यू राक्षसान् भीमानामानि च बभाषिरे ॥ ८ ॥ तद्वभूवाद्धतं घोरं युद्धं वानररक्षसाम । शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ॥ ९ ॥ राक्षसा मथिताः केचिद्धानरैर्जित काशिभिः । ववमूरुधिर केचिन्मुखैरुधिरभोजनाः॥१०॥ पाश्र्धेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः । शिलाभि श्शूणिताः केचित् केचिदन्तर्विदारिताः ॥ १॥ ध्वजैविमाथिभग्नैः खरैश्च विनिपातितः । स्थैविध्वसितश्चापि पतितै रजनीचरैः ॥ १२॥ गजेन्द्रैः पर्वताकारैः पर्वतायैर्वनौकसाम् । मथितैवाजिभिः कीर्ण सारोहैर्वसुधातलम् ॥ १३ ॥ वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः । राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १४॥ विवर्ण वदना भूयो विप्रकीर्णशिरोरुहाः। मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १९ ॥ अन्ये परमसंकुद्धा राक्षसा भीमनिस्वनाः । तलैरेवाभिधावन्ति वनस्पर्शसमेहरीन ॥१६॥ वानरैरापतन्तस्ते वेगिता वेगवत्तरैः। मुष्टिभिश्चरण दन्तैः पादपैश्चावपोथिताः। वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ॥ १७ ॥ सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षस र्षभः । क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ १८॥ खण्डिताः। मूढाः मूच्छिताः ॥ १४ ॥१५॥ अन्य इति । तलेरेवाभिधावन्ति, हस्ततलान्येवायुधस्थाने कृत्वा अभ्यधावन्नित्यर्थः ॥१६॥ वानरे । रिति । अवपोथिताः हिसिताः। “पुथ हिसायाम्" इति धातुः ॥ १७ ॥ सैन्यं त्विति । कदनं हिंसनम् ॥ १८॥ जितकाशिभिः जितभजितचासैर्वा ॥ १० ॥ द्रुमैः राशीकृताः द्रुममहारैईत्वा राशीकृता इत्यर्थः ॥ ११-१३ ॥ करजे: नखेः॥१४॥ मूढाः मूर्षिछताः ॥१५॥१६ अवपोथिताः हिंसिताः ॥ १७-१९ ॥
For Private And Personal Use Only