________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा..
इत्यनेनावतारकाले जातकफलसूचनवद्रामस्यानुकूलं गोचारफलं दर्शयति विपरीतफलं राक्षसानां च । तयादि-किष्किन्धातः आग्नेयदिग्वर्तिनीलकांप्रति टी.इ.का. गच्छतो रामस्यानुकूलः शुक्र इत्युच्यते । सूर्यस्थराशेः पुरोराशिस्थो हि भवति शुकः । सूर्यश्च तदानी मीनस्थः । उत्तराफल्गुनी ह्यद्यति प्रयाणदिन .. कथनात् फाल्गुनपौर्णमास्यां हि रामस्य दण्डयात्रेति पूर्वमुक्तम् । तदाच शुको मेषस्थः। अतो रामस्य कर्कटराशेमेषो हि दशमोऽनुकूलः। पूर्वोक्त। दिग्वर्तिनी लकां प्रति गच्छतो रामस्य पश्चात् स्थितत्वाच्च शुक्रोऽनुकूल एव । शुक्रानुकूल्योक्तिर्वृहस्पत्याद्यानुकूल्योएलक्षणम् । स झवतारकाले कर्कट कस्थः। तदपेक्षयाऽष्टात्रिंशद्वर्षयुद्धयात्राकालः। तथा च त्रिरावृत्त्या पत्रिंशद्वर्षेषु गतेषु रामस्याष्टात्रिंशद्वर्षे युद्धारम्भे गुरोः सिंहस्थितिः सिद्धा । गुरु द्वितीयता रामस्यानुकूला। शनिश्चावतारकाले तुलावर्गोत्तमस्थः। द्वितीयावृत्तौ तुलावृश्चिकयोः पञ्चवर्षेण गतयोः साईवर्षद्वयेनातीतेन धनुरतीत्य तदानी
ब्रह्मराशिविशुद्धश्च शुद्धाश्च परमर्षयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ १९॥ मकरस्थितियोग्योऽपि कथंचिद्धनुर्वर्गोत्तमस्थ एव शनिः । राहुस्तु अवतारकाले सिंहस्थः। ततोऽष्टात्रिंशद्वर्षेऽस्मिन् कटकस्थितियोग्योप्यतिचारादिभि मिथुनस्थः। तत्सप्तमे धनुषि केतुः । उक्तं चात्रापि-"मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना" इति । धूमाकारः केतुधूमकेतुः। तथाच धनुपि शनि केतू रामस्य षष्ठस्थावनुकूलौ । अङ्गारकस्तु रामरावणयुद्धप्रसङ्गे "आक्रम्याङ्गारकस्तस्थौ विशाखे अपि चाम्बरे" इत्युक्त्या विशाखाचतुर्थपादे वृश्चिक राशौ तिष्ठति । रामस्य पञ्चमाङ्गारकत्वफलमिदम्, यदेतद्ब्रह्मास्त्रवन्धरुधिरमोहादि। बुधस्य प्रतिमासं रोहिणीस्थत्वयोगेऽपिरामरावणयुद्धप्रसङ्गे-"प्राजा पत्यं च नक्षत्रं रोहिणी शशिनः प्रियाम् । समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः ॥” इत्युक्तं प्रजानामशुभावहत्वमतिचारवशादेव । स च रामस्य दशमस्थोऽनुकूलः । चन्द्रश्च उत्तराफल्गुनीस्थत्वात् कन्यास्थः। अतस्तृतीयचन्द्रो रामस्यानुकूलः। सूर्यो नवमस्थो रामस्यानुकूलः। राहुस्तु मिथुन स्थत्वाद् द्वादशस्थ इति किंचिद्वाधकः। राक्षसानामिदं सर्व विपरीतम् । तथाहि-राक्षसानां हि नक्षत्र मूलम् । तथाच धनू राशिः। तदपेक्षया पञ्चमस्थः शुकः प्रतिकूलः । जन्मराशिस्थौ शनिकेतू च प्रतिकूलो। राहुस्तु सप्तमस्थः किंचिदनुकूलः। द्वादशस्थाङ्गारकश्च प्रतिकूलः । गुरुस्तु नवमस्थोऽनुकूलः। चतुर्थस्थः सूर्यः पञ्चमस्थो बुधश्च नानुकूलौ । दशमस्थश्चन्द्रः किंचिदनुकूलः । एवं प्रायेण ग्रहगोचारफलं राक्षसानां विपरीतमेवेति ॥ १८॥ ब्रह्मराशिः। ब्रह्मराशिः वेदाना राशिभूतः, अधीतसर्ववेद इत्यर्थः । अत एव विशद्धः उशनाश्च त्वामनुगतः, अनेन प्रतिशुक्रता नाम्तीत्युक्तम् । ब्रह्मराशिरित्यस्य पादस्य
॥१२॥
For Private And Personal Use Only