________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
बद्धघण्टाः शूरत्वज्ञापनाय कटिबद्धघण्टा इत्यर्थः । ते पूर्वोक्तसेनास्थाः । विविधेति । आयुधानि शूलाद्भिन्नानि । अस्यार्धस्य पूर्वेणान्वयः ॥२३॥ गदा प्रसिद्धा । पट्टिशः दण्डविशेषः । परिघः भिन्दिपालः । भल्लः अयोमयः शरः । प्रासैः परश्वधैः । दिग्भ्यो जलदा इवेत्यन्वयः ॥ २४ ॥ २५ ॥ अन्ये
ते बद्धघण्टा बलिनो घोररूपा निशाचराः । विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् । विविधायुधहस्ताश्च शुल मुद्गरपाणयः ॥ २३ ॥ गदाभिः पट्टिशैर्दण्डैराय सैर्मुसलैर्भृशम् ॥ २४ ॥ परिघैर्भिन्दिपालैश्च भलैः प्रासैः परश्वधैः । निर्ययू राक्षसा दिग्भ्यो नर्दन्तो जलदा यथा ॥ २५ ॥ रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः। सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २६ ॥ हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः । निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥२७॥ वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः । आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ॥ २८ ॥ स निर्यातो महा वीर्यो धूम्राक्षो राक्षसैर्वृतः । प्रहसन पश्चिमद्वारं हनूमान् यत्र यूथपः । रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ॥ २९ ॥ प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् । अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ॥ ३० ॥ रथशीर्षे महान भीमो गृश्च निपपात ह । ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ॥ ३१ ॥ रुधिराद्रों महान श्वेतः कबन्धः पतितो भुवि । विश्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः ॥ ३२ ॥ ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी । प्रति लोमं वव वायुर्निर्घातसमनिस्वनः ॥ ३३ ॥ तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥ ३४ ॥ स तुत्पातांस्तदा दृष्ट्वा क्षसानां भयावहान् । प्रादुर्भूतान् सुघोरश्चि धूम्राक्षो व्यथितोऽभवत् ॥ ३५ ॥
कवचिनः । ध्वजैः विविधाननैः खरैश्च समलङ्कृतैः रथैर्निर्ययुः । अन्ये हयैः अन्ये गजैश्व निर्ययुरित्यन्वयः ॥२६ - २९॥ शकुनाः निमित्तसूचकाः पक्षिणः ॥ ३० ॥ कुणपाशनाः गृध्राः । ग्रथिताः मिलिताः॥३१॥ रुधिरेति । विस्वरमिति क्रियाविशेषणम् ॥३२॥ देवः पर्जन्यः । प्रतिलोमं प्रतिकूलम् ॥३३-३५ ॥ मतिक्रम्येत्यर्थः । किं चिरेण किं विलम्बेन । गदाभिरित्याद्युपलक्षणे तृतीया ॥ २१-२९ ॥ प्रयान्तमिति । शकुनाः दुश्शकुनाः ॥ ३० ॥ प्रथिताः मिलिताः
For Private And Personal Use Only