________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
N
बा.रा.भू.
यो तो, यावित्यर्थः । पाशानिति । पाशान् छित्त्वा स्थितौ गजाविव भासमानावित्यर्थः ॥ १२-१४॥ पोरित्यादि । दत्तवरैःवरदत्तैः । प्रमथ्य बलाटी .यु.कां. -त्कृत्य। बद्धो, अभूतामिति शेषः । संशयस्थं प्राणसंशयस्थम् । आदत्तम् आत्तम् ॥१५-१८॥ बलेनेति । त्वं वघायाभिनिर्याहीत्यमङ्गलसूचकंस
यौ ताविन्द्रजिता युद्ध भ्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥ विमुक्तौ शर बन्धेन तौ दृश्येते रणाजिरे। पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ॥ १३॥ तच्छ्रुत्वा वचनं तेषां राक्ष सेन्द्रो महाबलः। चिन्ताशोक़समाक्रान्तो विषण्णवदनोऽब्रवीत् ॥१४॥ घोरैर्दत्तवरैर्वद्धौ शरैराशीविषोपमैः। अमोधैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ॥ १५॥ तदत्रबन्धमासाद्य यदि मुक्तौ रिपू मम । संशयस्थमिदं सर्वमनुपश्या म्यहं बलम् ॥ १६ ॥ निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः । आदत्तं यः सुसङ्ग्रामे रिपूणां मम जीवितम् ॥ १७॥ एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा । अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥ १८॥ बलेन महता युक्तो रक्षसां भीमविक्रम । त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९॥ एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता । कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ॥२०॥ अभिनिष्कम्य तद्द्वारं बलाध्यक्षमुवाच ह। त्वरयस्व बलं तूर्ण किं चिरेण युयुत्सतः ॥२१॥ धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः । बलमुद्यो
जयामास रावणस्याज्ञया द्रुतस ॥२२॥ वचः॥ १९॥२०॥ द्वारमभिनिष्कम्य द्वारान्निष्क्रम्य । युयुत्सतः, ममेति शेषः । किं चिरेण किं विलम्बेन ॥२१॥ रावणस्याज्ञया रावणाज्ञाकृतं धूम्राक्षवचनं श्रुत्वेत्यर्थः ॥२२॥ विपुलैर्नादैः वरुणालयश्च चुक्षुभे अतोऽयं नादः शङ्का रामलक्ष्मणयोर्वन्धविमोचनशङ्काम् । जनयतीध जनयत्येवेत्यर्थः ॥४-१५ ॥ संशयस्थं प्राणसंशयस्थम् ॥१५५॥ ॥ १६॥ यैः शरैर्मम रिपूर्णा जीवितमादतं ते निष्फलाः संवृत्तः इति सम्बन्धः ॥ १७ ॥१८॥ बलेनेत्यस्य प्राकृतार्थः स्पष्टः । वस्तुतस्तु-बलेन युक्तस्सन् रक्षसा च तव चेत्यध्याहार्यम् । एकदैव रामस्य वानरैः रामसम्बन्धिवानररित्यर्थः। बधाय त्वमभिनियोहीति सम्बन्धः ॥ १९ ॥ २० ।। अभिनिष्क्रम्य तहारं गृहद्वार ।
For Private And Personal Use Only