________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अथ धूम्राक्षनिर्गम एकपञ्चाशे-तेषामित्यादि । राक्षसैः सह शुश्रावेत्यन्वयः ॥१॥ निर्घोषः ध्वनिः ॥२॥ यथाऽसावित्यादिसायचोक एकान्वयः। यथा येन प्रकारेण । सुमहानादः समुस्थितः ततः एतेषां सुमहती प्रीतिः, अस्तीति शेषः ॥ ३ ॥ तथा हीत्यर्धम् । तथा प्रसिद्धप्रकारः॥४॥तो विति।
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् । नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १॥ स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् । सचिवानां ततस्तेषांमध्ये वचनमब्रवीत् ॥२॥ यथाऽसौ सम्प्रहृष्टानां वानराणां समुत्थितः। बहूनां सुमहानादो मेघानामिव गर्जताम् । व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ ३ ॥ तथा हि विपुलैर्नाद श्चक्षुमे वरुणालयः॥४॥ तौ तु बद्धौ शरैस्तीक्ष्णैर्धातरौ रामलक्ष्मणौ । अयं च सुमहानादः शङ्कां जनयतीव मे ॥६॥ एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः । उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥ ज्ञायतां तूर्ण मतेषां सर्वेषां वनचारिणाम । शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥७॥ तथोक्तास्तेन सम्भ्रान्ताःप्राकारमधि रुह्य ते । ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥८॥ तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ । समुत्थिती महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ॥९॥ सन्त्रस्तहृदयाः सर्वे प्राकारादवह्य ते । विषण्णवदना घोरा राक्षसेन्द्रमुप
स्थिताः ॥ १०॥ तदप्रियं दीनमुखा रावणस्य निशाचराः । कृत्स्नं निवेदयामासुर्यथावदाक्यकोविदाः ॥११॥ लातुशब्दार्थः । तौ च बद्धौ नादश्च श्रूयते । स च प्रकृतविरुद्धो नादः । शङ्का राजपुत्रयोः झरबन्धापगमशङ्काम् जनयतीव । इवशब्दः सम्भावनायाम् Mu॥६॥ज्ञायतामिति । उत्थितं हर्षकारणं ज्ञायतामित्यन्वयः॥ ७-९ ॥ उपस्थिताः प्राप्ताः॥१०॥११॥
तेषामिति । राक्षसः विभीषणादिभिः ॥ १॥ स्निग्धगम्भीरनिर्घोषम् एतेन सीतापतिपतनकालिकदुःखशब्दो व्यावय॑ते । निनदं निरस्तो नदोऽर्णवो येन तम् । तदपेक्षया गम्भीरमिति यावत् ॥ २॥ यथा यतः कारणादित्यर्थः । संप्रहृष्टानां बहूनां वानराणां महान असो नादः समुत्थितः अतः कारणादेतेषां व्यक्तं सुमहती मीतिः, जातेति शेषः । नात्र संशयः॥३॥ नादश्रवणमात्रेण कथं तेषां प्रीतिरनुमीयत इत्यत आह-तथा हीत्यादिसार्धलोकेन । यतः रामलक्ष्मणौ शरैर्वद्धो
For Private And Personal Use Only