________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सहसा जवेन ॥ ५१ ॥ अप्रमादश्व कर्तव्य इति । तत्तदस्त्रानुगुणप्रत्यस्त्र प्रयोगेषु सावधानाभ्यां भवितव्यमित्यर्थः ॥ ५२ ॥ प्रकृत्येत्यादिश्लोक द्वयम् । एतेनैवोपमानेनेति । अनेन दृष्टान्तेन राक्षसा जिला ज्ञेया इत्यर्थः ॥ ५३-५५ ॥ सख इति । रिपूणामपि वत्सलेत्यनेन इन्द्रजिद्वधोपायो
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ ५० ॥ इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः। सहसा युवयोः स्नेहात् सखित्वमनुपालयन् ॥ ५१ ॥ मोक्षितौ च महाघोरादस्मात् सायकबन्ध नातू । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ ५२ ॥ प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः । शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३ ॥ तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे। एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ॥ ५४ ॥ एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः । परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे ॥ ५५ ॥ सखे राघव धर्मज्ञ रिपूणामपि वत्सल । अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ॥ ५६ ॥ न च कौतूहलं कार्यं सखित्वं प्रति राघव । कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ॥ ५७ ॥ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः । रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ॥ ९८ ॥
न ज्ञात इति द्योत्यते ॥ ५६ ॥ " अहं सखा ते काकुत्स्थ " इत्यादिनोक्तं सखित्वं कथमिति रामाशयमाशङ्क्य रहस्यत्वादिदानीं तद्विषयप्रश्नो न कर्तव्यः, रावणवधानन्तरं स्वयमेव ज्ञास्यसीत्याह-न चेति । सखित्वं प्रति सखित्वप्रश्नं प्रतीत्यर्थः ॥ ५७ ॥ रामस्योत्साहवर्धनाय भाविनमर्थ कपुत्राः ।। ४९-५१ ॥ अप्रमादध कर्तव्यः तत्रतत्रानुगुणमत्यप्रयोगेषु सावधानाभ्यां भवितव्यमित्यर्थः । एतेनैवोपमानेन दृष्टान्तेन राक्षसा जिल्ला इति ज्ञेया इत्यर्थः ॥ ५२-५६ ॥ अहं सखा ते काकुत्स्थ ' इत्यादिनोक्तं सखित्वं कथमिति रामाभिप्रायमाशङ्कय रहस्यत्वादिदानीं तद्विषयप्रक्षो न कर्तव्यः रावणवधानन्तरं स्वयमेव ज्ञास्यसीत्याह-न चेति ॥ ५७-६१ ॥
For Private And Personal Use Only