________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मेघान सागरतोयं च पर्यस्यन् पर्वतान् कम्पयनिव, गरुडपक्षवायुरुदभूदिति शेषः ॥ ३३ ॥ सर्वदीपमहाद्रुमाः, सर्वपदं दुमविशेषणम् । द्वीपंच लङ्का । लवणाम्भसि लवणसमुद्रे ॥ ३४ ॥ भोगिनः प्रशस्तकायाः। तत्रवासिनः लङ्कादीपवासिनः।यादांसि जलजन्तवश्च। लवणार्णवं लवणार्णवमध्यम् ।
एतस्मिन्नन्तरे वायुमेंघांश्चापि सविद्युतः। पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ॥ ३३ ॥ महता पक्षवातेन सर्वद्वीपमहाद्रुमाः । निपेतुर्भिन्नविटपाः समूला लवणाम्भसि ॥३४॥ अभवन् पन्नगाखस्ता भोगिनस्तत्रवासिनः । शीघ्र सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ ३५ ॥ ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥ ३६ ॥ तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । यैस्त सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥३७॥ ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥३८॥ वैनतेयेन संस्टष्टास्तयोः संरुरुहुर्वणाः।सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः॥ ३९ ॥ तेजो वीर्य बलं चौज उत्साहश्च
महागुणः । प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥४०॥ भयादन्तर्मनाः इत्यर्थः॥ ३५-३८॥ व्रणाः क्षतानि । संरुरुहुः संरूढाः, अज्ञातस्वरूपा बभूवुरित्यर्थः ॥ ३९ ॥ तेजः पराभिभवनसामर्थ्यम् पराधिक्षेपासहनं वा । वीर्य पराक्रमः।बलं शारीरम् । ओजः कान्तिः। उत्साहः लोकोत्तरकार्येषु स्थिरतरप्रयत्नः । प्रदर्शनं सूक्ष्मार्थपरिज्ञानम् । बुद्धिः विवेकः । स्मृतिः अनुभूतार्थाविस्मरणम् । एतत् सर्वं द्विगुणं वैनतेयसंस्पर्शवशात् पूर्वतोऽप्यधिकं जावमित्यर्थः । अत्र धिरिति गायत्र्याः सप्तदशा पतस्मिन्निति । सविद्युतो मेघान सागरे तोयं च पर्यस्य परित उत्क्षिप्य पर्वतान् कम्पयन्निव, पक्षवायुरुददिति शेषः ॥३३॥ पक्षवातेन निमित्तेन दुमाः निपेतु । रिति सम्बन्धः ॥३४॥ भोगिनो महाकायाः। तत्रवासिनः समुद्रवासिनः। लवणार्णवमाजग्मुः, भयादन्तर्मना इत्यर्थः ॥३५-३८॥ प्रणाःक्षतानि । संरुरुहुः संझदार तयोस्तनू मुवणे स्निग्धे च बभूवतुः । तयोस्तच्छरीरे व्रणात्यन्ताभावाधिकरणे इवाभूतामित्यर्थः ॥३९॥ तेजः पराभिभवनसामर्थ्यम् । वीर्य पराक्रमः । बलं शारीरबलम् । ओजः कान्तिः । उत्साह उत्तरोत्तरकार्येषु स्थिरतरप्रयत्नः । अत्र धिरिति गायत्र्यास्सप्तदशाक्षरं प्रदर्शनं चेत्यस्य श्लोकस्य सप्तमाक्षरेण धीत्यनेन
२.३
For Private And Personal Use Only