SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ला.रा.भ. अथेत्यादिना । इदं रघुसिंहयोः शरतल्पशयनम् अनिमित्तं न भवतीति मन्ये । अन्येन भयानिमित्तेन भवितव्यमित्यर्थः॥४॥तत्र हेतुमाह-विषण्णेत्यादिना ।। विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः। प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः॥५॥ अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितूं लङ्घयन्ति च ॥६॥ एतस्मिन्नन्तरे वीरो गदापाणिर्विभी षणः । सुग्रीवं वर्धयामास राघवं च निरैक्षत ॥७॥ विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् । ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥८॥ विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः। विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ॥९॥ शीघ्रमेतान सुसन्त्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥१०॥ सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः । वानरान सान्त्वयामास सन्निरुध्य प्रधावतः॥ ११ ॥ ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः। ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ १२ ॥ विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् । लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ॥ १३॥ जलक्लिन्नेन हस्तेन तयोर्ने प्रमृज्य च । शोकसम्पीडितमना रुरोद विललाप च ॥१४॥ इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ । इमामवस्था गमितौ राक्षसैः कूटयोधिभिः ॥ १५॥ भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ॥ १६॥ त्यक्ताहरणाः त्यक्तशिलाद्यायुधाः। अन्योन्यस्य अन्योन्यम् । विप्रकर्षन्ति द्रुतगमनार्थमाकर्षन्ति ॥५-९॥ विप्रधावितान् पलायमानान् ॥१०-१५॥ दुष्पुत्रेण कपटयुद्धेन पितुरखद्यावहेन । चालितौ वञ्चितौ । ऋविक्रमौ अकपटविक्रमौ ॥१६॥ दत्ते सुग्रीवः स्वाभिप्रायम्बाटयति-अथेत्यादि । इदं रसिंहयोश्शरतल्पशयनमनिमित्तं न भवतीति मन्ये किन्तु भयेनान्यभयहेतुनाऽत्र भवितव्यमित्यर्थः ।। यद्वा इदं पलायनमनिमित्तं न मन्ये निमित्तशून्यं न मन्ये, किन्तु भयेन अपूर्वभयनिमित्तेनात्र भवितव्यमित्यर्थः ॥५-२१ ॥ सा-त्रासान् नूतनमीतेः ॥ ५ ॥ यानरभीषणम् इन्द्रजिनमजनकतया ॥८॥भ्रातः रावणस्य पुत्रेण । नोभयोः पितापुत्रयोरेवताहककूट पोधित्व किन्तु परम्परवेशीत्याह-दुष्पुत्रेणेति । दुर्दष्टः पुत्रो यस्यासौ तथा ॥ ११॥ ॥१५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy