________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अयोध्यां गतोऽहं सुमित्रया कृतमुपालम्भम् उक्तप्रकारं सोढुं कथं शक्ष्यामि ॥ ११ ॥ इहैवेत्यर्धम् ॥ १२ ॥ धिगिति । दुष्कृतकर्माणं लक्ष्मणवनानयन मेव दुष्कृतं कर्म ॥ १३ ॥ त्वमिति । स त्वमित्यन्वयः ॥ १४ ॥ १५ ॥ शयान इति । अयमिति शेषः । अत्र शरतल्पस्थानीयोऽस्तगिरिः । शरस्थाने किरणाः । शोणितस्थाने रक्तवर्णत्वम् ॥ १६ ॥ रुजा व्यथा । दृष्टिरागेण वीक्षणप्रेम्णा ॥ १७ ॥ तथैव तेन प्रकारेण, मात्रादिस्नेहमविचार्यैत्यर्थः ।
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ १२ ॥ धि मां दुष्कृतकर्माणमनार्य यत्कृते ह्यसौ । लक्ष्मणः पतितः शैते शरतल्पे गतासुवत् ॥ १३ ॥ त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्रोषि मामार्त मभिभाषतुम् ॥ १४ ॥ येनाद्य निहता युद्धे राक्षसा विनिपातिताः । तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १५ ॥ शयानः शरतल्पेऽस्मिन् स्वशोणितपरिप्लुतः । शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥ १६ ॥ वाणाभिहतमत्वान्न शक्नोत्यभिभाषितुम् । रुजा चाब्रुवतोऽप्यस्य दृष्टिरागेण सूच्यते ॥ १७ ॥ यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १८ ॥ इष्टवन्धुजनो नित्यं मां च नित्यमनु व्रतः । इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १९ ॥ सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे । परुषं विप्रियं वापि श्रावितं तु कदाचन ॥ २० ॥
Acharya Shri Kalassagarsuri Gyanmandir
यमक्षयमित्यत्रापि यान्तमित्यनुषज्यते ॥ १८ ॥ १९ ॥ सुरुष्टेनेति । विप्रियम् अहितम् । सुरुष्टेनापि लक्ष्मणेन श्रावितं विप्रियं परुषं वाक्यं न स्मरामि यत्यो सम्परायः " इत्यमरः ॥ ६-१६ ॥ वाणाभिहतेति । रुजा व्यथा ॥ १७ ॥ वनं यान्तं मां यथैव मात्रादिषु स्नेहमकृत्यैव अनुयातः अहमपि एनमनु तथैव मात्रादिस्नेहमकृत्वैव यास्यामीति सम्बन्धः ।। १८ ।। १९ ।। विभियम् अहितम् ॥ २० ॥
स० [सुरुटेनापि येनकेनचित् । परुषं निष्ठुरम् अप्रियं कदाचन उक्तमिति शेषः । न संस्मरे न संस्मरामत्येव श्रावितम् । अन्यथा परुषा प्रियश्रावणापेक्षयाऽन्तर्निगूढस्य रोषस्याल्पता प्रतीयेत तब वैदिक लौकिकाननुकूलमित्येवमेवान्वयः समनसः ॥ २० ॥
For Private And Personal Use Only