________________
Shri Mahar Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyarmandir
म.रा.भ. १९४९॥
टी.यु.का.
अथ रामप्रबोधनमेकोनपञ्चाशे-घोरणेत्यादिशोकद्वयमेकान्वयम् । नागौ यथा नागाविव निश्वसन्तावित्यन्वयः । शोकपरिप्लुताः शोकपूर्णाः ॥१॥२॥ स्थिरत्वात् धीरत्वात् । सत्त्वयोगादलयोगात् । सन्दानितोऽपि बद्धोऽपि । “वढे सन्दानितं मूतम्" इत्यमरः ॥ ३॥ अर्पितं, शरेरिति शेषः ॥ ४॥
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १॥ सर्वे ते वानर श्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः॥२॥ एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्य वान् । स्थिरत्वात्सत्त्वयोगाच्च शरैःसन्दानितोऽपि सन् ॥३॥ ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः॥४॥ किं नु मे सीतया कार्य किं कार्य जीवितेन वा । शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥५॥ शक्या सीतासमा नारी मर्त्यलोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥६॥ परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७॥ किं नु वक्ष्यामि कौसल्या मातरं किं नु कैकयीम् । कथमम्बा सुमित्रां च पुत्रदर्शनलालसाम् ॥ ८॥ विवत्सां वेपमानां च क्रोशन्ती कुररीमिव । कथमाश्वासयिष्यामि यदा यास्यामितं विना ॥९॥ कथं वक्ष्यामि शत्रुघ्नं भरतं च यश स्विनम् ॥ १०॥ मया सह वनं यातो विना तेन गतः पुनः । उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ॥११॥ किं न्वित्यादिश्लोकद्वयम् । विचिन्वता, मयेति शेषः । सचिवः सहायः। साम्परायिकः युद्धे साधुः। “युद्धायत्योः सम्परायः" इत्यमरः ॥५॥६॥ पञ्चत्वं मृतिम् ॥ ७॥ किं न्वित्यादिश्वोकद्वयमेकान्वयम् । अहं तं लक्ष्मणं विना अयोध्यां यदा यास्यामि तदा कौसल्या कैकयीं च किं वक्ष्यामि। सुमित्रा कथमाश्वासयिष्यामि ॥८॥९॥ कथमित्यर्धम् । यशस्विनमित्यनेन तद्यशो मया न लब्धमिति खिद्यति ॥ १०॥ यो मया सह वनं यातः तेन विना ॥ १॥ २ ॥ एतस्मिन्निति । सन्दानितो बद्धोऽपि “ बढे सन्दानितं मूतम्" इत्यमरः। स्थिरत्वात् धीरत्वात् ॥३-५॥ साम्परायिकः सम्पराये युद्धे साधुः। "युद्धा
स-प्रत्यबुध्यत । तत्र निमित्तमाह-स्थिरत्वात प्रलयादाक्येकस्यैव स्थैर्यात् नित्यनित्यत्वादिति यावत् । सवयोगात बलोपायात् सन्दानितो बद्धस्सन् । एतेन असुरमोहनाय रामः स्वेच्छयैव सन्दानित इति ज्ञायते ॥ ३ ॥
॥१४९॥
For Private And Personal Use Only