SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir SSSSS स्वप्रमिति वाऽर्थः । शनैः पश्यस्व सावधानेन पश्येत्यर्थः ॥ ३३ ॥ न वियुज्यते न जहाति । गतायुषाम् अत एव गतसत्त्वानां गतप्राणानाम् । “द्रव्या सुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । वैकृतं विकृतिः ॥ ३२॥ रामलक्ष्मणयोरर्थे शोकं शोककृतं मुखविकारम् । मोहं विपरीतबुद्धिम् । दुःखं मनोव्यथां च त्यज । अजीवितुं न शक्यं जीवितुं शक्यमेवेत्यर्थः ॥ ३३ ॥ कृताञलिरित्यनेन भगवद्विषयोपदेष्टा योपि कोप्यादरणीय इत्युक्तम् । निस्संज्ञावप्युभावेतौ नैव लक्ष्मीवियुज्यते । प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वक्रेषु परं भवति वैकृतम् ॥ ३२ ॥ त्यज शोकं च मोहं च दुःखं च जनकात्मजे। रामलक्ष्मणयोरर्थे नाय शक्यमजीवितुम ॥ ३३ ॥ श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ ३४॥ विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् । दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ ३५ ॥ ततस्त्रिजटया सार्धं पुष्पका दवरुह्य सा। अशोकवनिकामेव राक्षसीभिः प्रवेशिता ॥ ३६॥ प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम्। सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥३७॥ इत्यार्षे श्रीरामायणे वाल्मीकीयो आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टचत्वारिंशः सर्गः॥४८॥ इदंशब्दविवरणम् एवमस्त्विति ॥ ३४ ॥ विमानमिति । सन्निवर्तने प्रवेशने च त्रिजटैव कीं ॥ ३५ ॥ राक्षसीभिरित्यनेन त्रिजटादर्शनायानीतेति गम्यते ॥ ३६॥ विहारभूमि प्रमदावनम् । सम्प्रेक्ष्य संचिन्त्य । प्रेक्षितप्रकारेण संचिन्त्येत्यर्थः । यद्वा भावनाप्रकर्षात्पुरस्थिती सम्प्रेक्ष्यत्यर्थः॥ ३७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥१८॥ तथाविधम, जीवनण्याकमिति यावत । दृश्यतेऽनेनेति दर्शनम, सैन्यमुखप्रसादादिकम् । शनैः पश्यस्य सावधानेन पश्येत्यर्थः । एतो लक्ष्मीनं वियुज्यते न विमुञ्चति ॥ ३१ ॥ ३२ ॥ रामलक्ष्मणयोरर्थे शोकादिकं त्यज, एताव जीवितुम् अजीवयितुं न शक्यमिति सम्बन्धः ॥ ३३-३७ ॥ इति श्रीमहेश्वरतीर्थविरचि. पातायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy