________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भू.चिन्तयत इत्यन्वयः ॥२०॥परिदेवयमानां विलपन्तीम् ॥२२॥ मा विषादमित्यर्धम् ॥२३॥ इमौ रामलक्ष्मणौ जीवत इति यथा ज्ञातुं शक्यते avuतथा । महान्ति स्फुटानि । सदृशानि पूर्वानुभूततुल्यानि । दृष्टसंवादानीति यावत् । कारणानि हेतून् वक्ष्यामीत्यन्वयः ॥२४॥ तान्येव कारणानि ।
स०४८ परिदेवयमानां तो राक्षसी त्रिजटाऽब्रवीत् ॥ २२॥ मा विषादं कृथा देवि भर्ताऽयं तव जीवति ॥ २३ ॥ कारणानि च वक्ष्यामि महान्ति सदृशानि च । यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ २४ ॥ नहि कोपपरीतानि हर्ष पर्युत्सुकानि च । भवन्ति युधि योधानां मुखानि निहते पतौ ॥ २५॥ इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धारयेनैवं यद्येतौ गतजीवितौ ॥ २६॥ हतवीरप्रधाना हि हतोत्साहा निरुद्यमा। सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ॥ २७ ॥ इयं पुनरसम्भ्रान्ता निरुद्विग्रा तरस्विनी । सेना रक्षति काकुत्स्थौमया प्रीत्या निवेदितौ ॥२८॥ सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः। अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते ॥ २९ ॥ अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन । चारित्रसुखशीलत्वात् प्रविष्टाऽसि मनोमम ॥ ३०॥ नेमौ शक्यौ रणे
जेतुं सेन्ट्रैरपि सुरासुरैः । तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव । इदं च सुमहच्चिद्रं शनैः पश्यस्व मैथिलि ॥३१॥ व्यतिरेकमुखेनाह-न हीति । हर्षेण पर्युत्सुकानि, प्रसन्नानीति यावत् ॥ २५ ॥२६॥ हतकर्णा हतकर्णधारा ॥२७॥ निवेदिती निवेदितजीवितो । d॥२८॥ सा त्वमित्यादि । अनुमानैः चिह्नः । सुखोदयैः सुखज्ञयरित्यर्थः ॥२९॥ चारित्रसुखशीलस्वात् । चरित्रमेव चारित्रं पातिव्रत्यम्, तदेव सुखं । प्रियं शीलं स्वभावः यस्याः सा तस्या भावश्चारित्रसुखशीलत्वं तस्मात् । या चारित्रेणाहादकस्वभावत्वादित्यर्थः । प्रविष्टासि मनो मम, त्वयि मम स्नेहो वर्तत इत्यर्थः ॥ ३० ॥ तादृशं ताहग्विधम्, जीवनव्यनकमिति यावत् । दृश्यते ज्ञायतेऽनेनेति दर्शनं सैन्यमुखप्रसादादिकम् । पूर्वदृष्टं रामलक्ष्मणो जीवत इति यथा यज्ञातुं शक्यते महान्ति स्फुटानि सहशानि अनुभूततुल्यानि, दृष्टसंवादानीति यावत् । कारणानि हेतून पश्यामीत्यर्थः ॥२४ ॥१८॥ तान्येव कारणानि व्यतिरेकमुखेनाह-नहीति ॥ २५ ॥ २६ ॥ हतकर्णा हतकर्णधारा ॥ २७ ॥ निवेदिनों निवेदितजीवितावित्यर्थः ॥ २८ ॥ अनुमानैर्लक्षणः । चारित्रसुखशीलत्वात् चरित्रमेव चारित्रं पातिव्रत्यं तदेव सुखं प्रियं शीलं स्वभावो यस्यास्मा तस्या भावश्चारित्रसुखशीलत्वं तस्मात् ॥ २२ ॥ ३० ॥ नाइशं
For Private And Personal Use Only