________________
She Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsur Gyanmandir
www.kobatirth.org
VI
अभिषेक इत्युक्तमित्यन्वयः। "चक्रवर्तिस्त्रियः पाणौ नन्द्यावर्तःप्रदक्षिणः" इत्यायुक्तनन्द्यावर्तादिलक्षणैरिति भावः। सवै वितथीकृतमित्यतः परं "यज्वनो । महिषी ये माम् " इत्यधस्तनश्लोकः केषुचित्कोशेषु दृश्यते । स तु लेखकप्रमादकृतः ॥ १४ ॥ शोधयित्वा अन्विष्य । प्रवृत्तिं वृत्तान्तम् । गोष्पदे इन्द्रजिन्मायामात्र इति भावः ॥१५॥ ब्रह्मशिरः अस्त्रविशेषः । प्रत्यपद्यता नन्वित्यन्वयः । परस्मैपदमार्षम् । नन्विति प्रसिद्धौ आमन्त्रणे वा । "प्रश्ना
शोधयित्वा जनस्थान प्रवृत्तिमुपलभ्य च । ती सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ १५॥ ननु वारुणमानेय मैन्द्रं वायव्यमेव च । अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ॥ १६ ॥ अदृश्यमानेन रणे मायया वासवोपमौ । मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ १७॥ न हि दृष्टिपथ प्राप्य राघवस्य रणे रिपुः । जीवन प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ १८॥ न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः। यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥ १९॥ न शोचामि तथा राम लक्ष्मणं च महाबलम् । नात्मानं जननीं वापि यथा श्वश्रू तपस्विनीम्
॥२०॥ साऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् । कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥२१॥ वधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः । प्रलापे निनिमित्तमामन्त्रणं सम्भवति ॥१६॥१७॥ दृश्यमानत्वे नैवं हन्तुं शक्नुयादित्याह-न हीति ॥१८॥ नति । शुभाशभप्रापकस्य कालस्यातिभारो नास्ति, अशक्यार्थों नास्तीत्यर्थः । कृतान्तः देवम् । यत्र यतः । रामः अतिबलपराक्रमशाल्यपीति भावः ॥ १९॥ जननी मन्मातरम् ॥२०॥ उक्तार्थे हेतुमाह-सेति । समाप्तव्रतम् अथ आगतं सराघवं लक्ष्मणं सीतां च कदा द्रक्ष्यामीति अनु। जनस्थानं शोधयित्वा नाशं नीत्वा ॥१५॥ प्रत्यपद्यता प्रत्यपद्येताम ॥१६-१८॥ न कालस्यातिभारोऽस्ति शुभाशुभमापककालस्याशक्योऽर्थो नास्तीत्यर्थः। कृतान्तो यमः। यत्र यस्मात् ॥ १९-२३ ॥
स-राधवी रामलक्ष्मणौ पत्यपद्यत प्रत्यपयेताम् । विश्वामित्रादिति शेषः । राधवय राघवश्चेति एतद्विग्रहवाक्यैकवचनापेक्षया पृथक्पृथगन्वयो वा । विश्वामित्रो वसिष्ठो वा राधवी पत्यपद्यत प्रत्यपादयत पाइया मासेति वा । ननुना सर्वम् एतदादि विस्मृतं वा माया प्रबलेति वा कल्पना सूचयति ॥ १९ ॥
For Private And Personal Use Only