________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kalassagarsur Gyanmandir
मा.रा.भ.
isr
॥ १२॥
मप्युपलक्षणम् । एकं पाच सव्यं पार्थम् । अभिरक्षतीत्यस्य प्रत्येकमभिसम्बन्धः । व्यत्ययेन लट् ॥ ३४ ॥ ऋक्षेरावृतत्वं जाम्बवत एव । तत्संग बन्धात सुपेणस्यापि । जघनं पश्चाद्भागम् ॥ ३५॥ संपतन् । मार्गशोधनाय पुरो गच्छन्नपि पर्यपालयत् सेनापतित्वात् सर्वतो ररक्षेत्यर्थः ॥ ३६॥
स०४ सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ। सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः॥ ३५॥ तेषां सेनापतिवीरो नीलो वानरपुङ्गवः । सम्पतन् पततां श्रेष्ठस्तद्वलं पर्यपालयत् ॥ ३६ ॥ दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥३७॥ एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः। अपश्यंस्ते गिरिश्रेष्ठं सह्य गुमलतायुतम् । सरांसि च सुफुल्लानि तटाकानि वनानि च ॥ ३८ ॥ रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्। वर्जयनगराभ्याशास्तथा जनपदानपि ॥३९॥ सागरोधनिभं भीमं तदानरबलं महत् । उत्ससर्प महाघोष भीमघोष इवार्णवः॥४०॥ तस्य दाशरथेः पावें शूरास्ते कपिकुञ्जराः । तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः
॥४१॥ कपिभ्यामुह्यमानौ तौ शुशुभाते नरोत्तमौ । महद्भयामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥ ४२ ॥ दरीमुख इति । स्पष्टम् ॥३७॥ अपश्यन्, दूरादिति शेषः । सुफुल्लानि सुफुल्लपद्मकद्वाराणि ॥३८॥ भीतवत् भीतम् । कर्तरि क्तवतु प्रत्ययः । वर्जयत् दूरतः परिहरत् उत्ससर्प जगामति सम्बन्धः । सागरोघनिभमिति विपुलतायां साम्यम् । भीमघोष इवार्णव इति चोपे ॥३९॥४०॥ दाशरथेः पावे. इति । तन्मुखोल्लासायति भावः ॥४१॥ हनुमदगन्दाभ्यामुह्यमानौ रामलक्ष्मणौ। महाग्रहाभ्यां शुक्रबृहस्पतिभ्याम् । संस्पृष्टौ संयुक्तौ । चन्द्रसूर्या , रक्षति अभ्यरक्षत् ॥ ३४ ॥ सुषेण इत्यादि । जाम्बवदादीनां पूर्व कुक्षिरक्षणे नियुक्तत्वात सुग्रीवं पुरतः कृत्वा जधनं संररक्षतुरित्यस्य सुग्रीवस्य पृष्ठतः
कक्षि पश्चिमभाग ररक्षतुरित्यर्थः ॥ ३५॥ नील: पुरोमार्गशोधकस्सन्नपि प्रवनवेगातिशयवत्तया परितः सर्वतो ररक्षेत्यर्थः ॥३५॥३७॥ एवमित्यादिसायश्लोक रामेकं वाक्यम् ॥ ३८॥ भीतवत् भीताईम् ॥ ३९-४१ ॥ ग्रहाभ्यां राहुकेतुभ्याम् ॥ ४२ ॥ ४॥
स-प्रहाभ्यां शुक्रवृहस्पतिभ्याम् । " कविकाव्ययुतज्योत्स्नाकान्तवत् स न्यरोचत । " इत्युक्तेः । लक्ष्मणपक्षे चन्द्रो निदर्शनम् । रामपक्षे मास्करः । ततश्च कविकाव्यान्या सकान्तिश्चन्द्र इव वाहनसाहिस्पेन) सकान्तिर्लक्ष्मणः । सूर्यप्रकाशामिभूतप्रकाशस्तयोरिव रामप्रकाशामिभवो वाइनरुचोरिति निदर्शनाविधको द्रष्टव्यः ॥ ४२ ॥
For Private And Personal Use Only