________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
* भ्रमन्त इत्यर्थः । गर्जन्तः मेघध्वानं कुर्वन्तः । घनगर्जितमिति प्रसिद्धिः । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । "वेला तु सिंहनादः स्यात्" इत्यमरः । निनदन्तः अव्यक्तं शब्दायमानाः “ जद अव्यक्ते शब्दे " इति धातुः ॥ २७ ॥ भक्षयन्तः पिबन्तः । उद्वहन्तः विलासार्थ हस्ते धारयन्तः ॥ २८ ॥ अन्योन्य मिति । सहसा तरसा । निर्वहन्ति उद्वहन्ति । क्षिपन्ति पातयन्ति । अन्ये पतन्तः सन्तः । परान् पातयितृन् । आक्षिपन्ति प्रतीकारकरणासामर्थेन
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान मञ्जरीपुञ्जधारिणः ॥ २८ ॥ अन्योन्यं सहसा हप्ता निर्वहन्ति क्षिपन्ति च । पततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान् ॥ २९ ॥ रावणो नो निहन्तव्यः सर्वे च रजनी चराः । इति गर्जन्ति हरयो राघवस्य समीपतः ॥ ३० ॥ पुरस्तादृषभो वीरो नीलः कुमुद एव च । पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ ३१ ॥ मध्ये तु राजा सुग्रीवो समो लक्ष्मण एव च । बहुभिर्बलिभिर्भीमैर्वृताः शत्रु निवर्हणाः ॥ ३२ ॥ हरिः शतवलिवरः कोटीभिर्दशभिर्वृतः । सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ ३३ ॥ कोटीशत परीवारः केसरी पनसो गजः । अर्कश्वातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ ३४ ॥
Acharya Shri Kalassagarsuri Gyanmandir
परिभाषणं कुर्वन्तीत्यर्थः । अपरे शक्ताः । परान् पातयितृन् पातयन्ति ॥ २९ ॥ रावण इति । नः अस्माभिरित्यर्थः ॥ ३० ॥ पुरस्तादिति । अत्र पूर्व रामेण मार्गरक्षणाय ये नीलादयो नियुक्ताः ततोऽन्ये कुमुदादयस्तु रामभक्त्युत्साहेन स्वयमेव प्रवृत्ता इति ज्ञेयम् । ऋषभो दक्षिणपार्श्वरक्षणाय नियुक्तो भक्त्या पराक्रमातिशयेन च अत्रापि रक्षणं कृतवानिति ज्ञेयम् ॥ ३१ ॥ मध्ये त्विति । जग्मुरिति शेषः ॥ ३२ ॥ अवष्टभ्य अधिष्ठाय ॥ ३३ ॥ गजस्याग्रभागनियुक्तस्यापि पार्श्वरक्षणं भक्त्यतिशयात् । अत्र कार्यकरणात्सर्यादयश्च पूर्व नियुक्ता एवेत्याहुः । अत्र पूर्वनियुक्तानां गन्धमादनादीना
निघण्टुः ॥ २७ ॥ उद्वहन्तः जग्मुरित्यन्वयः ॥ २८ ॥ सहसा बलेन निर्वहन्ति उद्वहन्ति ॥ २९ ॥ ३० ॥ पुरस्तादित्यत्र मार्गशोधकत्वेन कुमुदकषभयोरप्युपादानात प्रागपि नीलेन सहेतावपि मार्गशोधने नियुक्ताविति मन्तव्यम् । अत्र ऋषभशब्देन दक्षि गपार्श्वनियुकादृषभादन्य उच्यते ॥ ३१ ॥ मध्य इति । बहुभिर्वृताः, जग्मुरिति शेषः ॥ ३२ ॥ ३३ ॥ गजः पूर्वभागनियुक्तादन्यः । पार्श्वमेकं पश्चाद्भागम् ऋषभगन्धमादनयोः पूर्वमेव दक्षिण सम्यपार्श्वयोर्विनियोगात् । तस्य बलस्य । अभि
For Private And Personal Use Only