________________
Shri Mahavir Jain Aradhana Kendra
पा.रा.भू. ॥ १० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गन्धहस्ती मत्तगजः । तरस्वी बलवान् । सव्यं प्राचीभागम् । अधिष्ठितः अधिष्ठाता । कर्तरि क्तः ॥ १८ ॥ यास्यामीति । मध्यगमनप्रयो जनमाह अभिदर्पयन्निति । 'प्रहर्षयेद्वलं व्यू' इत्युक्तेः । ईश्वरः इन्द्रः, तथैवौचित्यात् । गवां पतिमिवेश्वर इति वा पाठः ॥ १९ ॥ अङ्गदेनेति अङ्गदेन संयातु अङ्गदमारुह्य संयात्वित्यर्थः । सार्वभौमेन उत्तरदिग्गजेन । भूतेशः यक्षेशः । द्रविणाधिपतिः धनाधिपतिः । अत्र त्वं च शिविका 'यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ १९ ॥ अङ्गदेनैष संयातु लक्ष्मण श्वान्तकोपमः । सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ २० ॥ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्ष राजो महासत्त्वः कुक्षिं रक्षन्तु तै त्रयः ॥ २१ ॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश महा वीर्यान् वानरान् वानरर्षभः ॥ २२ ॥ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ २३ ॥ ततो वानरराजेन लक्ष्मणेन च पूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम ॥ २४ ॥ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ २५ ॥ तं यान्तमनुयाति स्म महती हरिवाहिनी ॥ २६ ॥ दृप्ताः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । वेलन्तो निनदन्तस्ते जग्मुर्वे दक्षिणां दिशम् ॥ २७ ॥
मारुह्य आवाभ्यामागच्छेति सिद्धम् ॥ २० ॥ जाम्बवानिति । ऋक्षराजः जाम्बवद्धाता । कुक्षिं पश्चाद्भागम् । जाम्बवान् सुषेणः वेगदर्शी चेति त्रयः महासत्त्वः ऋक्षराजश्च कुक्षिं रक्षन्त्वित्यन्वयः ॥ २१ ॥ राघवस्येति । व्यादिदेश राम्रोक्तं सर्वं कुरुतेत्याज्ञापयामास ॥ २२ ॥ त इति । पुप्लुविरे प्लुत गतिं चक्रिरे ॥ २३ ॥ तत इति । पूजितः पुरस्कृत इत्यर्थः । धर्मात्मा नीतिरूपधर्मज्ञ इत्यर्थः ॥ २४ ॥ शतैरिति । ययौ, राम इति शेषः ॥ २५ ॥ तमिति । हरिवाहिनी पूर्वोक्तबलवानरभिन्ना ॥ २६ ॥ गच्छतामवस्थाविशेषान् दर्शयति-दृप्ताः इत्यादिना । हप्ता गर्विताः । आप्नुवन्तः मण्डलाकारं ईश्वरः इन्द्रः ॥ १९ ॥ सार्वभौमेन उत्तरदिग्गजेन । भूतेशो यक्षेशः ॥ २० ॥ जाम्बवानित्यस्य विशेषणम् ऋक्षराज इति ॥२१-२५॥ तं यान्तमित्यर्धमेकं वाक्यम् ॥२६॥ आनुवन्तः आ समन्तात् पुषमानाः, दूरं पतन्त इत्यर्थः । लवन्तः केवलं लक्ष्यन्तः । वेलन्तः सिंहनादान् कुर्वन्तः । “क्ष्वेला तु सिंहनादः स्पाद " इति
For Private And Personal Use Only
टी.पु.क स० ४
॥ १० ॥